यत्सारं सर्वलोकस्य वीर्यस्य तपसोऽपि च २१.
व्यालीढांगा महादेवा बलिनो नीलकंधराः २१.
पिंगोत्तुंगजटाजूटाः सिंहचर्मावसायिनः २१.
कपालीशादयो रुद्रा विद्रावितमहाऽसुराः २१.
अजकः शासनः शास्ता शंभुश्चंद्रो भवस्तथा २१.
अपालयंत त्रिदशान्विगर्जंत इवांबुदाः २१.
प्रचंचलमहाहेमघंटासंहतिमंडिते २१.
महामदजलस्रावे कामरूपे शतक्रतुः तस्यारक्षत्पदं सव्यं मारुतोऽमितविक्रमः॥ २१.
जुगोपापरमग्निश्च ज्वालापूरितदिङ्मुखः २१.
आदित्या वसवो विश्वे मरुतश्चाश्विनावपि २१.
कोटिशःकोटिशः गृत्वा वृंदं चिह्नोपलक्षितम् २१.
चेलुर्दैत्यवधे दृप्ता नानावर्णायुधध्वजाः॥ २१.
शतक्रतोरमरनिकायपालिता पताकिनी याननिनादनादिता २१.
आयांतीं तां विलोक्याथ सुरसेनां गजासुरः २१.
परश्वधायुधो दैत्यो दशनौष्ठकसंपुटः २१.
परान्परशुना जघ्ने दैत्येंद्रो रौद्रविक्रमः २१.
मुमुचुः संहताः सर्वे चित्रशस्त्रास्त्रसंहतिम् २१.
कुन्तान्प्रासाञ्छरांस्तीक्ष्णान्मुद्गरांश्चापि दुःसहान् २१.
कोपस्फुरितदंष्ट्राग्रः करस्फोटेन नादयन् २१.
यस्मिन्यस्मिन्निपतति सुर वृंदे गजासुरः २१.
अथ विद्रवमानं तब्लं प्रेक्ष्व समंततः २१.
भोभो गृह्णत दैत्येंद्रं भिंदतैनं महाबलाः २१.
कपाली वाक्यमाकर्ण्य शूलं सितशितंमुखे २१.
प्रोत्फुल्लारुणनीलाब्जसंहतिः सर्वतो दिशः २१.
दृढेन मुष्टिबन्धेन शूलं विषृभ्य निर्मलः २१.
ततो दशापि ते रुद्रा निर्मलायोमयै रणे २१.
सुस्राव शोणितं पश्चात्सर्वस्रोतस्सु तस्य वै २१.
प्रोत्फुल्लामलनीलाब्जं शरदीवामलं सरः २१.
क्रुद्धं कपालिनं दैत्यः प्रचलत्कर्णपल्लवः २१.
दृष्ट्वानुरक्तं रुद्राभ्यां नवरुद्रास्ततो द्रुतम् २१.