हिरण्यकशिपुर्दैत्यो वीर्यशाली मदोद्धतः २१.
पूर्वं प्रतिबला दैत्या मधुकैटभसन्निभाः २१.
युगेयुगे च दैत्यानां त्वत्तो नाशोऽभवद्धरे २१.
एवं संनोदितो विष्णुर्व्यवर्धत महाभुजः २१.
अथोवाच सहस्राक्षं केशवः प्रहसन्निव २१.
त्रैलोक्यदानवान्सर्वान्दग्धुं शक्तः क्षणादहम् २१.
महिषश्चैव शुंभश्च उभौ वध्यौ च योषिता तस्मात्त्वं दिव्यवीर्येण जहि जंभं मदोत्कटम्॥ २१.
अवध्यः सर्वभूतानां त्वामृते स तु दानवः॥ २१.
मया गुप्तो रणे जंभो जगत्कंटकमुद्धर २१.
समादिशत्सुराध्यक्षान्सैन्यस्य रचनां प्रति २१.
यत्सारं सर्वलोकस्य वीर्यस्य तपसोऽपि च २१.
व्यालीढांगा महादेवा बलिनो नीलकंधराः २१.
पिंगोत्तुंगजटाजूटाः सिंहचर्मावसायिनः २१.
कपालीशादयो रुद्रा विद्रावितमहाऽसुराः २१.
अजकः शासनः शास्ता शंभुश्चंद्रो भवस्तथा २१.
अपालयंत त्रिदशान्विगर्जंत इवांबुदाः २१.
प्रचंचलमहाहेमघंटासंहतिमंडिते २१.
महामदजलस्रावे कामरूपे शतक्रतुः तस्यारक्षत्पदं सव्यं मारुतोऽमितविक्रमः॥ २१.
जुगोपापरमग्निश्च ज्वालापूरितदिङ्मुखः २१.
आदित्या वसवो विश्वे मरुतश्चाश्विनावपि २१.
कोटिशःकोटिशः गृत्वा वृंदं चिह्नोपलक्षितम् २१.
चेलुर्दैत्यवधे दृप्ता नानावर्णायुधध्वजाः॥ २१.
शतक्रतोरमरनिकायपालिता पताकिनी याननिनादनादिता २१.
आयांतीं तां विलोक्याथ सुरसेनां गजासुरः २१.
परश्वधायुधो दैत्यो दशनौष्ठकसंपुटः २१.
परान्परशुना जघ्ने दैत्येंद्रो रौद्रविक्रमः २१.
मुमुचुः संहताः सर्वे चित्रशस्त्रास्त्रसंहतिम् २१.
कुन्तान्प्रासाञ्छरांस्तीक्ष्णान्मुद्गरांश्चापि दुःसहान् २१.
कोपस्फुरितदंष्ट्राग्रः करस्फोटेन नादयन् २१.
यस्मिन्यस्मिन्निपतति सुर वृंदे गजासुरः २१.