गरुडं जगृहुः केचित्पादयोः शतशोऽसुराः २०.
केशवस्यापि धनुषि भुजयोः शीर्ष एव च २०.
तदद्भुतं महद्दृष्ट्वा सिद्धचारणवार्तिकाः २०.
ततो हरिर्विनिर्धूय पातयामास तान्भुवि २०.
विकोशं च ततः नंदकं खड्गमुत्तमम् २०.
ततो मुहूर्तमात्रेण पद्मानि दश केशवः २०.
ततो निमिप्रभृतयो विनद्यासुरसत्तमाः २०.
गरुत्मांश्चाभ्ययात्तूर्णमारुरोह च तं हरिः २०.
अश्रांतो यदि तार्क्ष्यासि मथनं प्रति तद्व्रज २०.
न मे श्रमोऽस्ति लोकेश किंचित्संस्मरतश्च मे २०.
इति ब्रवन्रणे दैत्यं मथनं प्रति सोऽगमत् २०.
जघान भिंडिपालेन शितधारेण वक्षसि २०.
जघान पंचभिर्बाणैर्गिरींद्रस्यापि भेदकैः २०.
विचेतनो मुहूर्तात्स संस्तभ्य मथनः पुनः २०.
विष्णुस्तेन प्रहारेण किंचिदाघूर्णितोऽभवत् २०.
तया संताडयामास मथनं हृदये दृढम् २०.
तस्मिन्निपतिते भूमौ मथने मथिते भृशम् २०.
ततस्तेषु विषण्णेषु दानवेष्वतिमानिषु २०.
प्रत्युद्ययौ हरिं रौद्रः स्वबाहुबलमाश्रितः २०.
शक्त्या च गरुडं वीरो हृदयेऽभ्यहनद्दृढम् २०.
ग्रस्तुमैच्छद्रणे दैत्यः सगरुत्मंतमच्युतम् २०.
वदनं पूरयामास दिव्यैस्त्रैर्महाबलः २०.
परिवर्तितकायार्धः पपाताथ ममार च २०.
महिषं प्राह मत्तस्त्वं वधं नार्हसि दानव २०.
उत्तिष्ठ गच्छ मन्मुक्तो द्रुतमस्मान्महारणात् २०.
तस्मिन्पराङ्मुखे दैत्ये महिषे शुंभदानवः २०.
निर्मध्य पाणिना पाणिं धनुरादाय भैरवम् २०.
स चित्रयोधी दृढमुष्टिपातस्ततश्व विष्णुं च दैत्यः २०.
विष्णुश्च दैत्येंद्रशरार्दितो भृशं भुशुंडिमादाय कृतांततुल्याम् २०.
ततस्त्रिभिः शंभुभुजं द्विषष्ट्या सूतस्य शीर्षं दशक्षिश्च केतुम् २०.