यावच्च संधानवशं प्रयांति नारायणादीनि निवारणाय २०.
अनंतरं शांतभयं तदस्त्रं दैत्यास्त्रयोगेन च कालदण्डम् २०.
जग्राह चक्रं तपना युतप्रभमुग्रारमात्मानमिव द्वितीयम् २०.
तदाव्रजच्चक्रमथो विलोक्य सर्वात्मना दैत्यवराः स्ववीर्यात् २०.
तदप्रतर्क्यं नवहेतितुल्यं चक्रं पपात ग्रसनस्य कण्ठे २०.
चक्राहतः संयति दानवश्च पपात भूमौ प्रममार चापि २०.
ततो विनिहते दैत्ये ग्रसने बलनायके २०.
पट्टिशैर्मुशलैः प्रासैग्नि दाभिः कणपैरपि २०.
तदस्त्रजालं तैर्मुक्तं लब्धलक्षो जनार्दनः २०.
जघान तेषां संक्रुद्धः कोटिकोटिं जनार्दनः २०.
गरुडं जगृहुः केचित्पादयोः शतशोऽसुराः २०.
केशवस्यापि धनुषि भुजयोः शीर्ष एव च २०.
तदद्भुतं महद्दृष्ट्वा सिद्धचारणवार्तिकाः २०.
ततो हरिर्विनिर्धूय पातयामास तान्भुवि २०.
विकोशं च ततः नंदकं खड्गमुत्तमम् २०.
ततो मुहूर्तमात्रेण पद्मानि दश केशवः २०.
ततो निमिप्रभृतयो विनद्यासुरसत्तमाः २०.
गरुत्मांश्चाभ्ययात्तूर्णमारुरोह च तं हरिः २०.
अश्रांतो यदि तार्क्ष्यासि मथनं प्रति तद्व्रज २०.
न मे श्रमोऽस्ति लोकेश किंचित्संस्मरतश्च मे २०.
इति ब्रवन्रणे दैत्यं मथनं प्रति सोऽगमत् २०.
जघान भिंडिपालेन शितधारेण वक्षसि २०.
जघान पंचभिर्बाणैर्गिरींद्रस्यापि भेदकैः २०.
विचेतनो मुहूर्तात्स संस्तभ्य मथनः पुनः २०.
विष्णुस्तेन प्रहारेण किंचिदाघूर्णितोऽभवत् २०.
तया संताडयामास मथनं हृदये दृढम् २०.
तस्मिन्निपतिते भूमौ मथने मथिते भृशम् २०.
ततस्तेषु विषण्णेषु दानवेष्वतिमानिषु २०.
प्रत्युद्ययौ हरिं रौद्रः स्वबाहुबलमाश्रितः २०.
शक्त्या च गरुडं वीरो हृदयेऽभ्यहनद्दृढम् २०.