शुम्भो मेषं समारुह्याव्रजद्द्वादशयोजनम् २०.
आजग्मुः समरे क्रुद्धा विष्णुमक्लिष्टकारिणम् २०.
शुम्भः शूलेन तीक्ष्णेन प्रासेन ग्रसनस्तथा २०.
जघ्नुर्नारायणं शेषा विशिखैर्मर्मभेदिभिः २०.
उपदेशा गुरोर्यद्वत्सच्छिष्यं बहुधेरिताः २०.
ममर्द दैत्यसेनां तद्धर्ममर्थवचो यथा २०.
मथनं दशभिश्चैव शुम्भं पंचभिरेव च २०.
जंभं द्वादशभिस्तीक्ष्णैः सर्वांश्चैकैक शोऽष्टभिः २०.
चक्रुर्गाढतरं यत्नमावृण्वाना हरिं शरैः २०.
हस्ताच्चापं च संरंभाच्चिच्छेद महिषासुरः २०.
भुजावस्य च विव्याध शंभो बाणायुतेन वै २०.
तां प्राहिणोत्स वेगेन मथनाय महाहवे २०.
आहत्य पातयामास विनदन्कालमेघवत् २०.
नैतदस्ति बलं व्यक्तं यत्राशीर्यत सा गदा २०.
जग्राह मुद्गरं घोरं दिव्यरत्नपरिष्कृतम् २०.
तमायांतं वियत्येव त्रयो दैत्या ह्यवारयन् २०.
शक्त्या च महिषो दैत्यो विनदंतो महाररवम् २०.
जग्राह शक्तिमुग्रोग्रां शतघंटामहास्वनाम् २०.
तामायान्तीमथालोक्य जंभोऽन्यस्य रथात्त्वरात् २०.
तयैव गरुडं मूर्ध्नि जघ्ने स प्रहसन्बली २०.
विचेताश्चाभवद्युद्धे गरुडः शक्तिपीडितः २०.
करस्पर्शेन कृतवान्विमोहं विनतात्मजम् २०.
कुभार्यस्य यथा पुंसः सर्वंस्याच्चिंतितं वृथा २०.
कृत्वा च तलनिर्घोषं रौद्रमस्त्रं मुमोच सः २०.
भूमिर्दिशश्च विदिशो बामजालमया बुभुः २०.
ब्राह्ममस्त्रं चकाराशु सर्वास्त्रविनिवारणम् २०.
अस्त्रे प्रतिहते तस्मिन्विष्णुर्दानवसूदनः २०.
संधीयमानेस्त्रे तस्मिन्मारुतः परुषो ववौ २०.
तदस्त्रमुग्रं दृष्ट्वा तु दानवा युद्धदुर्मदाः २०.
नारायणांस्त्रं ग्रसनस्तु चक्रे त्वाष्ट्रं निमिश्चास्त्रवरं मुमोच २०.