स तमुद्ग्राह्य वेगेन दानवाय मुमोच वै १९.
चिच्छेद तिलशः क्रुद्धो दर्शयन्पाणिलाघवम् १९.
तेन दैत्यस्य हृदयं ताडयामास वेगतः १९.
शक्तिं जग्राह तीक्ष्णाग्रां हेमघंटाट्टहासिनीम् १९.
भिन्नं शक्त्या भुजं तस्य स्रुतशोणितमाबभौ १९.
ततो विष्णुः प्रकुपितो जग्राह विपुलं धनुः १९.
दैत्यस्य हृदयं षड्भिर्विव्याध च शरैस्त्रिभिः १९.
द्वाभ्यां धनुर्ज्याधनुषी भुजं चैकेन पत्रिणा १९.
स्रुतरक्तारुणः प्रांशुः पीडाचलितमानसः १९.
ततः कंपितमालक्ष्य गदां जग्राह केशवः १९.
सा पपात शिरस्युग्रा सहसा कालनेमिनः १९.
स्रुतरक्तौघरंध्रश्च स्रुतधातुरिवाचलः १९.
पतितस्य रथोपस्थे दानवस्याच्युतोऽरिहा १९.
गच्छासुर विमुक्तोऽसि सांप्रतं जीव निर्वृतः १९.
एवं वचस्तस्य निशम्य विष्णोः सर्वेश्वरस्याथ रथं निमेषात् १९.
तं दृष्ट्वा दानवाः सर्वे क्रुद्धाः स्वैःस्वैर्बलैर्वृताः २०.
पर्वताभे गजे भीमे मदस्राविणि दुर्दमे २०.
स्वर्णवर्णांचिते यद्वन्नगे दावाग्निसंवृते २०.
तस्यासन्दानवा रौद्रा गजस्य परिरक्षिणः २०.
अश्वमारुह्य शैलाभं हरिमाद्रवत् २०.
शुम्भो मेषं समारुह्याव्रजद्द्वादशयोजनम् २०.
आजग्मुः समरे क्रुद्धा विष्णुमक्लिष्टकारिणम् २०.
शुम्भः शूलेन तीक्ष्णेन प्रासेन ग्रसनस्तथा २०.
जघ्नुर्नारायणं शेषा विशिखैर्मर्मभेदिभिः २०.
उपदेशा गुरोर्यद्वत्सच्छिष्यं बहुधेरिताः २०.
ममर्द दैत्यसेनां तद्धर्ममर्थवचो यथा २०.
मथनं दशभिश्चैव शुम्भं पंचभिरेव च २०.
जंभं द्वादशभिस्तीक्ष्णैः सर्वांश्चैकैक शोऽष्टभिः २०.
चक्रुर्गाढतरं यत्नमावृण्वाना हरिं शरैः २०.
हस्ताच्चापं च संरंभाच्चिच्छेद महिषासुरः २०.