वज्रास्त्रं च प्रकुर्वाणौ दानवेंद्रमयुध्यताम् १९.
रथो ध्वजो धनुश्चैव छत्रं च कवचं तथा १९.
तद्दृष्ट्वा दुकरं कर्म सोऽश्विभ्यां भीमविक्रमः १९.
ततः शशाम वज्रास्त्रं कालनेमिस्ततो रुषा १९.
तावभिप्रायमालक्ष्य संत्यज्य समरांगणम् १९.
तयोरनुगतो दैत्यः कालनेमिर्नदन्मुहुः १९.
स काल इव कल्पांते यदा वासवमाद्रुतः १९.
हाहारावं प्रकुर्वाणास्तदा देवाश्च मेनिरे १९.
चेलुः शिखरिणो मुख्याः पेतुरुल्का नभस्तलात् १९.
तां भूताविकृतिं दृष्ट्वा देवाः सेंद्रा भयावहाः १९.
नमो ब्रह्मण्यदेवाय गोब्राह्मणहिताय च १९.
स नो रक्षतु गोविंदो भयार्तास्ते जगुः सुराः १९.
विबुध्यैव च पर्यंकाद्योगनिद्रां विहाय सः १९.
शारदंबरनीराब्जकांतिदेहच्छविः प्रभुः १९.
विमृश्य सुरसंक्षोभं वैनतेयमाताह्वयत् १९.
दिव्यनानास्त्रतीक्ष्णार्चिरारुह्यागात्सुराहवम् १९.
दानवेंद्रैर्नवांभोदसच्छायैः सर्वथोत्कटैः १९.
तत्त्राणायाव्रजद्विष्णुः स्तूयमानो मुहुः सुरैः १९.
अथापश्यत दैत्येंद्रो वियति द्युतिमंडलम् १९.
प्रभवं ज्ञातुमिच्छंतो दानवास्तस्य तेजसः १९.
तत्र स्थितं चतुर्बाहुं हरिं चानुपमद्युतिम् १९.
अयं स देवः सर्वेषां शरणं केशवोऽरिहा १९.
एनमाश्रित्य लोकेशा यज्ञभागभुजोऽमराः १९.
तं जघ्नुर्विविधैः शस्त्रैः परिवार्य समंततः १९.
षष्ट्या विव्याधबाणानां कालनेमिर्जनार्दनम् १९.
जंभकश्चैव सप्तत्या शुंभो दशभिरेव च १९.
दशभिर्दशभिः शल्यैर्जघ्नुः सगरुडं रणे १९.
एकैकं दानवं जघ्ने षड्भिः पड्भिरजिह्नगैः १९.
विष्णुं विव्याध हृदये रोषाद्रक्तविलोचनः १९.
मयूखा इव संदीप्ताः कौस्तुभस्य स्फुरत्त्विषः १९.