वैशंपायनकौशल्यशारद्वतकपिध्वजैः
कृष्णातपोत्तमानंतकरुणामलकप्रियैः
नरनारायणाभ्यां च दिव्यैश्चान्यैर्महर्षिभिः 1.3.2.3.
माहेश्वराग्रगण्यस्त्वं समस्तागमपारगः
त्वन्मुखादेव भगवन्वयमेते सुशिक्षिताः
दिव्यागमपुराणानि द्रष्टव्यः परमेश्वरः
त्वयि यद्यस्ति नो भक्तिर्दया चास्मासु ते यदि
इत्थं मृकण्डुतनयेन स नंदिकेशो विज्ञापितः सविनयं स्मयमानवक्त्रम्
तव चेन्नाभिधास्यामि कस्य वान्यस्य कथ्यते
त्वादृगन्योस्ति किं लोके शिवधर्मपरायणः
कस्यान्यस्य कृते देवः स्वस्यैवाज्ञाकरं यमम्
त्वमेव शांकरान्धर्मान्सर्वान्विद्धि रहस्यतः
त्वयैवान्येन केनाहमेवं शुश्रूषितश्चिरम्
उपदेक्ष्यामि ते क्षेत्रं गुप्तं तद्धर्मशासनैः
आदरादनुयुंजानं शिष्यं यो देशिकः स्वयम्
समाहितमना भूत्वा विश्वासं कुरु शाश्वतम्
स्मर स्मरांतकं देवं वंदस्वाध्याय शांकरीम्
अस्ति दक्षिणदिग्भागे द्राविडेषु तपोधन 1.3.2.4.
योजनत्रयविस्तीणमुपास्यं शिवयोगिभिः
तत्र देवः स्वयं शम्भुः पर्वताकारतां गतः
आवासः सर्वसिद्धानां महर्षीणां सुपर्वणाम्
सुमेरोरपि कैलासादप्यसौ मन्दरादपि
स्पृहयंति यदीयेभ्यो जंतुभ्योपि दिवौकसः
न कल्पवृक्षाः सदृशा यत्रत्यानां महीरुहाम्
हिंसैकरुचयो व्याधा अपि रूपानुसारतः
यदुद्देशचरा मेघाः शिखराण्यभिबंधकाः
कलारावाः खगा यत्र क्वणंते कीचका अपि
स्मरन्तो यत्र खद्योताः कृष्णपक्षे निशागमे 1.3.2.4.
निष्प्रत्यूहकृताश्लेषा नित्यं यत्तटिनीरुहाः
यस्योत्तुंगस्य शृंगाग्रसंगमा अपि तारकाः