गंभीरास्फोटनिर्ह्रादजगद्धृदयकंपनः १९.
ववर्ष शीतं च जलं दानवेन्द्रबलं प्रति १९.
बीजांकुरा इव म्लानाः प्राप्य वृष्टिं धरातले १९.
शस्त्रवृष्टिं ववर्षोग्रां देवनीकेषु दुर्जयः १९.
गतिं कांचिन्न पश्यन्ति गावः शीतार्दिता इव रथेषु च भयत्रस्तास्तत्रतत्र निलिल्यिरे॥ १९.
एवं ते लीयमानाश्च निहताः कालने मिना १९.
विभिन्ना भिन्नमूर्धानस्तथा भिन्नोरुजानवः १९.
तुरंगाणां सहस्राणि गजानामयुतानि च १९.
एवमाजौ महादैत्यः कालनेमिर्महासुरः १९.
यक्षाणां पंचलक्षाणि किंनराणां तथैव च १९.
इतरेषां न संख्यास्ति सुरजातिनिकायिनाम् १९.
एवं प्रतिभये भीमे तदामर महाक्षये १९.
जघ्नतुस्तौ रणे दैत्यमेकैकं षष्टिभिः शरैः १९.
ताभ्यां बाणप्रहारैस्तु किंचित्सोऽवाप्तचेतनः १९.
तेन चक्रेण सोश्विभ्यां चिच्छेद रथकूबरम् १९.
ववर्ष भिषजोर्मूर्ध्नि संछाद्याकाशगोचरम् १९.
तच्च करम तयोर्दृष्ट्वा विस्मितः कोपमाविशत् १९.
स तदमुद्भ्राम्य वेगेन चिक्षेपास्य रथं प्रति १९.
मुक्त्वा रथावुभौ वेगादाप्लुतौ तरसाश्विनौ १९.
दारयामास धरणीं हेमजालपरिष्कृतः १९.
वज्रास्त्रं च प्रकुर्वाणौ दानवेंद्रमयुध्यताम् १९.
रथो ध्वजो धनुश्चैव छत्रं च कवचं तथा १९.
तद्दृष्ट्वा दुकरं कर्म सोऽश्विभ्यां भीमविक्रमः १९.
ततः शशाम वज्रास्त्रं कालनेमिस्ततो रुषा १९.
तावभिप्रायमालक्ष्य संत्यज्य समरांगणम् १९.
तयोरनुगतो दैत्यः कालनेमिर्नदन्मुहुः १९.
स काल इव कल्पांते यदा वासवमाद्रुतः १९.
हाहारावं प्रकुर्वाणास्तदा देवाश्च मेनिरे १९.
चेलुः शिखरिणो मुख्याः पेतुरुल्का नभस्तलात् १९.
तां भूताविकृतिं दृष्ट्वा देवाः सेंद्रा भयावहाः १९.