पूरयामास गगनं विदिश एव च १८.
दिशश्च विदिशश्चैव पूरयामास पावकैः १८.
तेन ज्वालासमूहेन हिमां शुरगमद्द्रुतम् १८.
तद्बलं दानवेंद्राणां मायया कालनेमिनः उवाचारुणमत्यर्थं कोपरक्तांतलोचनः॥ १८.
नयारुण रथं शीघ्रं कालनेमिरथो यतः॥ १८.
विमर्दे तत्र विषमे भविता भूतसंक्षयः १८.
इत्युक्तश्चोदयामास रथं गरुडपूर्वजः १८.
जगद्दीपोऽथ भगवाञ्जग्राह विततं धनुः १८.
शंबरास्त्रेण संधाय बाणमेकं ससर्ज ह १८.
शंबरास्त्रं क्षणाच्चक्रे तेषांरूपविपर्ययम् १८.
मत्वा सुरान्स्वकानेव जघ्ने घोरास्त्रलाघवात् १८.
कांश्चित्खड्गेन तीक्ष्णेन कांश्चिन्नाराचवृष्टिभिः १८.
शिरांसि केषाचिदपातयद्रथाद्भुजांस्तथा सारथींस्चोग्रवेगान् १८.
कालनेमी रुषाविष्टस्तेषां रूपं न बुद्धवान् १९.
केशेषु गृह्य तं वीरं चकर्ष च ननाद च १९.
अहं निमिः कालनेमे सुतं मत्वा वधस्व मा १९.
सुरैः सुदुर्जयाः कोट्यो निहतादश विद्धि तत् १९.
स तेन बोधितो दैत्यो मुक्त्वा तं संभ्रमाकुलः १९.
ब्रह्मास्त्रं तत्प्रजज्वाल ततः खे सुमहाद्भुतम् १९.
शंबरास्त्रं ततः शांतं ब्राह्मप्रतिहतं तदा १९.
महेंद्रजालमास्ताय चक्रे भीषणां तनुम् १९.
तताप दानवानीकं गलन्मज्जाङ्घ्रिशोणितम् १९.
गजानामगलन्मेदः पेतुश्चापि रथा भुवि १९.
इतश्चेतश्च सलिलं प्रार्थयंतस्तृषातुराः १९.
तेषां प्रार्थयतां शीघ्रमन्योन्यं च विसर्पिणाम् १९.
तोयार्थिनः पुरो दृष्ट्वा तोयं कल्लो लमालितम् १९.
अप्राप्य सलिलं भूमावभ्याशे द्रुतमेव ते १९.
रथा गजाश्च पतितास्तुरंगाश्च श्रमान्विताः १९.
दानवानां कोटिकोटि व्यदृश्यतमृतं तदा १९.
प्रकोपोद्भूतताम्राक्षः कालनेमी रुषातुरः १९.