एतस्मिन्नन्तरे देवो वरुणः पाशभृद्धृतः १८.
ततो बद्धभुजं दैत्यं विफलीकृतपौरुषम् १८.
स तु तेन प्रहारेण स्रोतोभिः क्षतजं स्रवन् १८.
तदवस्थागतं दृष्ट्वा कुजंभं महिषासुरः १८.
निर्ऋति वरुणं चैव तीक्ष्णदंष्ट्रोत्कटाननः १८.
त्यक्त्वा रथावुभौ भीतौ पदाती प्रद्रुतौ द्रुतम् १८.
क्रुद्धोऽथ महिषो दैत्यो वरुणं समुपाद्रवत् १८.
चक्रे शस्त्रं विसृष्टं हि हिमसंघातमुल्बणम् १८.
वायुना तेन चंडंन संशुष्केण हिमेन च १८.
गात्राण्यसुरसैन्यानामदह्यंत समंततः १८.
न शेकुश्चलिंतुं तत्र नास्त्राण्यादातुमेव च १८.
अंसमालिंग्य पाणिभ्यामुपविष्टो ह्यधोमुखः १८.
रणेच्छां दूरतस्त्यक्त्वा तस्थुस्ते जीवितार्थिनः १८.
भोभोः श्रृंगारिणः क्रूराः सर्वशस्त्रास्त्रपारगाः १८.
एकैकोऽपि क्षमो ग्रस्तुं जगत्सर्वं चराचरम् १८.
किं त्रस्तनयनाश्चैव समरे परिनिर्जिताः १८.
राज्ञश्च तारकस्यापि दर्शयिष्यथ किं मुखम् १८.
इति ते प्रोच्यमानापि नोचुः किंचिन्महासुराः १८.
मूकास्तथाभवन्दैत्या मृतकल्पा महारणे १८.
मत्वा कालक्षमं कार्यं कालनेमिर्महासुरः १८.
पूरयामास गगनं विदिश एव च १८.
दिशश्च विदिशश्चैव पूरयामास पावकैः १८.
तेन ज्वालासमूहेन हिमां शुरगमद्द्रुतम् १८.
तद्बलं दानवेंद्राणां मायया कालनेमिनः उवाचारुणमत्यर्थं कोपरक्तांतलोचनः॥ १८.
नयारुण रथं शीघ्रं कालनेमिरथो यतः॥ १८.
विमर्दे तत्र विषमे भविता भूतसंक्षयः १८.
इत्युक्तश्चोदयामास रथं गरुडपूर्वजः १८.
जगद्दीपोऽथ भगवाञ्जग्राह विततं धनुः १८.
शंबरास्त्रेण संधाय बाणमेकं ससर्ज ह १८.
शंबरास्त्रं क्षणाच्चक्रे तेषांरूपविपर्ययम् १८.