निःश्वसन्दीर्घमुष्णं च रोषात्ताम्रविलोचनः १८.
मुमोच दानवानीके तं बाणं शत्रुदारणम् १८.
निश्चेरुर्विस्फुलिंगानां कोटयो धनुषस्तथा १८.
तदस्त्रं सहसा दृष्ट्वा जंभो भीमपराक्रमः १८.
ततस्तं दानवो दृष्ट्वा कुबेरं रोषविह्वलः १८.
अथाभिमुखमायांतं दैत्यं दृष्ट्वा धनाधिपः १८.
ततः पलायतस्तस्य मुकुटो रत्नमंडितः १८.
यक्षणामभिजातानां भग्नं प्रववृते रणात् १८.
इति व्यवस्य दुर्धर्षा नानाशस्त्रास्त्रपाणयः १८.
अभिमान धना वीरा धनस्य पदानुगाः १८.
भुशुण्डीं भीषणाकारां गृहीत्वा शैलगौरवाम् १८.
तान्प्रमथ्याथ नियुतं मुकुटं तं स्वके रथे १८.
धनानि च निधीन्गृह्य स्वसैन्येन समावृतः १८.
धनदोऽपि धनं सर्वं गृहीतो मुक्तमूर्धजः १८.
कुजंभेनाथ संसक्तो रजनीचरनंदनः १८.
मोहयामास दैत्येन्द्रो जगत्कृत्वा तमोमयम् १८.
न शेकुश्चलितुं तत्र पदादपि पदं तदा १८.
जघान निर्ऋतिर्देवस्तमसा संवृता भृशम् १८.
महिषो दानवेन्द्रस्तु कल्पांतां भोदसन्निभः १८.
विजृंभत्यथ सावित्रे परमास्त्रे प्रातपिनि १८.
ततोऽस्त्रविस्फुलिंगांकं तमः शुक्लं व्यजायत १८.
ततस्तमसि संशांते दैत्येन्द्राः प्राप्तचक्षुषः १८.
अथादाय धनुर्घोरमिषुं चाशीविषोपमम् १८.
राक्षसेन्द्रस्तथायांतं दृषट्वा तं स पदानुगः १८.
नादानं न च सन्धानं न मोक्षो वास्य लक्ष्यते १८.
ध्वजं शरेण तीक्ष्णेन निचकर्तामरद्विषः १८.
कालकल्पेन बाणेन तं च वक्षस्याताडयत् १९.
दैत्येंद्रो राक्षसेन्द्रेण क्षितिकंपेनगो यथा १८.
पदातिरासाद्य रथं रक्षो वामकरेण च १८.
ततः खड्गेन च शिरश्छेत्तुमैच्छदमर्षणः कुजंभस्य वशं प्राप्तं दृष्ट्वा निर्ऋतिमाहवे॥ १८.