नादेन तस्य ग्रसनस्य संख्ये महायुधैश्चार्दितसर्वगात्राः १७.
धनाधिपस्य जंभेन सायकैर्मर्मभेदिभिः १८.
तद्दृष्ट्वा कर्म दैत्यस्य धनाध्यक्षः प्रतापवान् १८.
हृदि विव्याध बाणानां सहस्रेणाग्निवर्चसाम् १८.
नियुतं च तथा कोटिमर्बुदं चाक्षिपत्क्षणात् १८.
धनाध्यक्षः प्रचिक्षेप स्वर्गेप्सुः स्वधनं यथा १८.
भूतानां बहुधा रावा जज्ञिरे खे महाभयाः १८.
सा हि वैश्रवणस्यास्ते त्रैलोक्याभ्यर्चिता गदा १८.
दैत्यो गदाविघातार्थं शस्त्रवृष्टिं मुमोच ह १८.
परिघान्मुशलान्वृक्षान्गिरींश्चातुलविक्रमः १८.
कल्पांतभास्करो यद्वन्न्यपतद्दैत्यवक्षसि १८.
निःपपात रथाज्जंभो वसुधां गतचेतनः १८.
धनाधिपस्य संक्रुद्धो नादेनापूरयन्दिशः १८.
विच्छिद्य बाणजालं च मायाजालमिवोत्कटम् १८.
चिच्छेद लीलया तांश्च दैत्यः क्रोधीव सद्वचः १८.
शक्तिं जग्राह दुर्धर्षां शतघंटामहास्वनाम् १८.
यथाल्पबोधं पुरुषं दुःखं संसारसंभवम् १८.
निमेषात्सोभिसंस्तम्भ्य दानवो दारुणाकृतिः १८.
स तेन पट्टिसेनाजौ धनदस्य स्तनांतरम् १८.
निर्बिभेदाभिजातस्य हृदयं दुर्जनो यथा॥ तेन पट्टिश घातेन धनेशः। परिमूर्छितः॥ १८.
निषसाद रथोपस्थे दुर्वाचा सुजनो यथा १८.
राक्षसो निर्ऋतिर्देवो निशाचरबलानुगः १८.
अथ दृष्ट्वातिदुर्धर्षं कुजंभो राक्षसेश्वरम् १८.
स दृष्ट्वा नोदितां सेनां प्रबलास्त्रां सुभीषणाम् १८.
खड्गेन तीक्ष्णधारेण चर्मपाणिरधावत १८.
लोडयामास बहुधा विनिष्कृत्य सहस्रशः १८.
संदष्टौष्ठमुखैः पृथ्वीं दैत्यानां सोऽभ्यपूरयत् १८.
मुक्त्वा धनपतिं दैत्यः कुजंभो निर्ऋतिं ययौ १८.
जीवग्राहं स जग्राह बद्धा पाशैः सहस्रधा १८.
वाहनानि च दिव्यानि विमानानि च सर्वशः १८.