ततो महूर्तमात्रेण ग्रसनः प्राप्य चेतनाम् १७.
स चापि चिंतयामास कृतप्रतिकृतक्रियाम् १७.
मय्याश्रितानि सैन्यानि जिते मयि जितानि च १७.
संभावितस्त्वशक्तश्चेत्तस्य नायं परोऽपि वा १७.
मुद्गरं कालदण्डाभं गृहीत्वा गिरिसंनिभम् १७.
रथेन त्वरितोऽगच्छदाससादांतकं रणे १७.
वेगेन महता रौद्रं चिक्षेप यममूर्धनि १७.
वंचयामास दुर्द्धर्षं मुद्गरं तं महाबलः १७.
याम्यानां किंकराणां च अयुतं निष्पिपेष ह १७.
दशार्बुदमिता क्रुद्धा ग्रसनायान्वधावत १७.
मेने यमसहस्राणि तादृग्रूपबला हि सा १७.
कल्पांतघोरसंकाशो बभूव स महारणः १७.
पिपिषुर्गदया केचित्कोचिन्मुद्गरवृष्टिभिः १७.
अपरे किंकरास्तस्य ललंबुर्बाहुमंडले १७.
तस्यापरे च गात्रेषु दशनांश्चन्यपातयन् १७.
एवं चाभिद्रुतस्तैः स ग्रसनः क्रोधमूर्छितः १७.
कांश्चिदुत्थाय जघ्नेऽसौ मुष्टिभिः किंकरान्रणे १७.
क्षणैकेन स तान्निन्ये यमलोकायभारत १७.
तमालोक्य यमोऽश्रांतं श्रांतंस्तांश्च हतान्स्वकान् १७.
ग्रसनस्तु तमायांतमाजघ्ने गदयोरसि १७.
व्याघ्रान्दंडेन संजघ्ने स रथान्न्य पतद्भुवि १७.
वायुवेगेन सहसा ययौ यमरथं प्रति १७.
योधयामास बाहुभ्यामाकृष्य बलिनां वरः १७.
ग्रसनं कटिवस्त्रे तु यमं गृह्य बलोत्कटः १७.
विमोच्याथ यमः कष्टात्कंठेऽवष्टभ्य चासुरम् १७.
ततो जघ्नतुरन्योन्यं मुष्टिभिर्निर्दयौ च तौ १७.
स्कंधे निधाय दैत्यस्य मुखं विश्रांतिमैच्छत १७.
निष्पिपेष महीपृष्ठे विनिघ्नन्पार्ष्णिपाणिभिः १७.
निर्जीवमिति तं दृष्ट्वा ततः संत्यज्य दानवः १७.
स्वकं सैन्यं समासाद्य तस्थौ गिरिरिवाचलः॥ १७.