कृतांतमर्दितं दृष्ट्वा गदापाणिर्धनादिपः १७.
जंभो रुषा तमायांतं दानवा नीकसंवृतः १७.
ग्रसनो लब्धसंज्ञोऽथ यमस्य प्राहिणोद्गदाम् १७.
तामापतंतीं संप्रेक्ष्य गदां महिषवाहनः १७.
दंडं मुमोच कोपेन ज्वालामालासमाकुलम् १७.
संवट्टश्चाभवत्ताभ्यां शैलाभ्यामिव दुःसहः १७.
जगद्व्याकुलतां यातं प्रलयागमशंकया १७.
निष्पेषणं तयोर्भीमम भूद्गनगोचरम् १७.
पपात पौरुषं हत्वा यथा दैवं पुरार्जितम् १७.
पपात भूमौ निःसंज्ञो भूमिरेणुविभूषितः १७.
ततो महूर्तमात्रेण ग्रसनः प्राप्य चेतनाम् १७.
स चापि चिंतयामास कृतप्रतिकृतक्रियाम् १७.
मय्याश्रितानि सैन्यानि जिते मयि जितानि च १७.
संभावितस्त्वशक्तश्चेत्तस्य नायं परोऽपि वा १७.
मुद्गरं कालदण्डाभं गृहीत्वा गिरिसंनिभम् १७.
रथेन त्वरितोऽगच्छदाससादांतकं रणे १७.
वेगेन महता रौद्रं चिक्षेप यममूर्धनि १७.
वंचयामास दुर्द्धर्षं मुद्गरं तं महाबलः १७.
याम्यानां किंकराणां च अयुतं निष्पिपेष ह १७.
दशार्बुदमिता क्रुद्धा ग्रसनायान्वधावत १७.
मेने यमसहस्राणि तादृग्रूपबला हि सा १७.
कल्पांतघोरसंकाशो बभूव स महारणः १७.
पिपिषुर्गदया केचित्कोचिन्मुद्गरवृष्टिभिः १७.
अपरे किंकरास्तस्य ललंबुर्बाहुमंडले १७.
तस्यापरे च गात्रेषु दशनांश्चन्यपातयन् १७.
एवं चाभिद्रुतस्तैः स ग्रसनः क्रोधमूर्छितः १७.
कांश्चिदुत्थाय जघ्नेऽसौ मुष्टिभिः किंकरान्रणे १७.
क्षणैकेन स तान्निन्ये यमलोकायभारत १७.
तमालोक्य यमोऽश्रांतं श्रांतंस्तांश्च हतान्स्वकान् १७.
ग्रसनस्तु तमायांतमाजघ्ने गदयोरसि १७.