चक्रैश्च शक्तिभिश्चैव तोमरैरंकुशैरपि १७.
भल्लैर्वेतसपत्रैश्च शुकतुंडैश्च निर्मलैः १७.
संप्रच्छाद्य दिशः सर्वास्तमोमयमिवाभवत् १७.
अदृश्यभूतास्तमसि न्यकृंतंत परस्परम् १७.
गजैस्तुरंगैः पादातैः पतद्भिः पतितैरपि १७.
भग्नदंता भिन्नकुंभाश्छिन्नदीर्घमहाकराः १७.
भग्नैषाश्च रथाः पेतुर्भग्नाक्षाः शकलीकृताः १७.
ततः शोणितनद्यश्च हर्षदाः पिशिताशिनाम् १७.
तस्मिंस्तथाविधे युद्धे सेनानीर्ग्रसनोऽरिहा १७.
ततो ग्रसनमालोक्य यमः क्रोधविमूर्छितः १७.
स विद्धो बहुभिर्षाणैर्ग्रसनोऽतिपराक्रमः १७.
शरैः सहस्रैश्च पञ्चलक्षैश्चैव व्यताडयत् १७.
बाणवृष्टिभिरुग्राभिर्यमो ग्रसनमर्दयत् चिच्छेद शरवर्षेण ग्रसनो दानवेश्वरः॥ १७.
विफलां तां समालोक्य यमः स्वशरसंततिम्॥ १७.
प्राहिणोन्मुद्गरं दीप्तं ग्रसनस्य रथं प्रति १७.
जग्राह वामहस्तेन लीलया ग्रसनोऽरिहा १७.
ताडयामास वेगेन स पपात महीतले १७.
प्रासेन ताडयामास ग्रसनं वदने दृढम् १७.
ग्रसनं पतित दृष्ट्वा जंभो भीमपराक्रमः १७.
यमस्तेन प्रहारेण सुस्राव रुधिरं मुखात् १७.
कृतांतमर्दितं दृष्ट्वा गदापाणिर्धनादिपः १७.
जंभो रुषा तमायांतं दानवा नीकसंवृतः १७.
ग्रसनो लब्धसंज्ञोऽथ यमस्य प्राहिणोद्गदाम् १७.
तामापतंतीं संप्रेक्ष्य गदां महिषवाहनः १७.
दंडं मुमोच कोपेन ज्वालामालासमाकुलम् १७.
संवट्टश्चाभवत्ताभ्यां शैलाभ्यामिव दुःसहः १७.
जगद्व्याकुलतां यातं प्रलयागमशंकया १७.
निष्पेषणं तयोर्भीमम भूद्गनगोचरम् १७.
पपात पौरुषं हत्वा यथा दैवं पुरार्जितम् १७.
पपात भूमौ निःसंज्ञो भूमिरेणुविभूषितः १७.