तथा भीमाशनिकराः कृष्णवस्त्रा महारथाः १६.
ताम्रोलूकध्वजा रौद्रा द्वीपिचर्मांबरास्तथा १६.
तथैव श्वेतवसनाः सितपट्टपताकिनः १६.
मुक्ताजाल पिरष्कारो हंसो हारसमप्रभः १६.
पंचरागमहारत्नविटंको धनदस्य च १६.
कार्ष्णलोहमयो ध्वांक्षो यमस्याभून्महाध्वजः १६.
हेमसिंहध्वजौ देवौ चन्द्रार्कवमितद्युति १६.
मातंगो हेमरचितश्चित्ररत्नपरिष्कृतः १६.
अन्येषां च ध्वजास्तत्र नानारूपा बभू रणे १६.
सेना सा देवराजस्य दुर्जया प्रत्यदृश्यत १६.
हैमाचलाभे सितकर्णचामरे सुवर्णपद्मामलसुंदरस्रजि १६.
श्रितस्तदैरावणनामकुंजरे महाबलश्चित्रविशेषितांबरः १६.
सहस्रदृग्बंदिसहस्रसंस्तुतस्त्रिविष्टपेऽशोभत पाकशासनः॥ १६.
ततस्तयोः समायोगः सेनयोरुभयोरभूत् १७.
सुरासुराणां संमर्दे तस्मिन्परमदारुणे १७.
गर्जतां देवदैत्यानां शंखभेरीरवेण च १७.
हेषितैर्हयवृंदानां रथनेमिस्वनेन च १७.
रोषेणाबिपरीतांगास्त्यक्तजीवितचेतसः १७.
रथा रथैः समासक्ता गजाश्चापि महागजैः १७.
ततः प्रासाशनिगदाभिंडिपालपरश्वधैः १७.
चक्रैश्च शक्तिभिश्चैव तोमरैरंकुशैरपि १७.
भल्लैर्वेतसपत्रैश्च शुकतुंडैश्च निर्मलैः १७.
संप्रच्छाद्य दिशः सर्वास्तमोमयमिवाभवत् १७.
अदृश्यभूतास्तमसि न्यकृंतंत परस्परम् १७.
गजैस्तुरंगैः पादातैः पतद्भिः पतितैरपि १७.
भग्नदंता भिन्नकुंभाश्छिन्नदीर्घमहाकराः १७.
भग्नैषाश्च रथाः पेतुर्भग्नाक्षाः शकलीकृताः १७.
ततः शोणितनद्यश्च हर्षदाः पिशिताशिनाम् १७.
तस्मिंस्तथाविधे युद्धे सेनानीर्ग्रसनोऽरिहा १७.
ततो ग्रसनमालोक्य यमः क्रोधविमूर्छितः १७.