स च दैत्येश्वरः क्रुद्धः समारूढो महारथम् जगद्धंतुं प्रवृत्तो वा प्रतस्थेऽसौ सुरान्प्रति॥ १६.
एतस्मिन्नंतरे वायुर्देवदूतः सुरालयम् १६.
स गत्वा तु सभां दिव्यां महेंद्रस्य महात्मनः १६.
तच्छ्रुत्वा देवराजः स निमीलितविलोचनः १६.
संप्राप्तोऽतिविमर्दोऽयं देवानां दानवैः सह १६.
एतच्छ्रुत्वा च वचनं महेंद्रस्य गिरांपतिः १६.
सामपूर्वं स्मृता नीतिश्चतुरंगामनीकिनीम् १६.
साम दानं च भेदश्च चतुर्थो दंड एव च १६.
तत्र साम प्रयोक्तव्यमार्येषु गुणवत्सु च १६.
दण्डश्चापि प्रयोक्तव्यो नित्यकालं दुरात्मसु १६.
श्रिया तेषां च किं कार्यं समृद्धानां तथापि यत् १६.
एको ह्युपायो दंडोऽत्र भवतां यदि रोचते १६.
लालितः पालितो वापि स्वस्वभावं न मुंचति १६.
एवमुक्तः सहस्राक्ष एवमेवेत्युवाच ह १६.
बहुमानेन मे वाचं श्रृणुध्वं नाकवासिनः॥ १६.
भवंतो यज्ञभोक्तारः सतामिष्टाश्च सात्त्विकाः १६.
भवतां च निमित्तेन बाधंते दानवेश्वराः १६.
क्रियतां समरे बुद्धिः सैन्यं संयोज्यतामिति १६.
इत्युक्ताः समनह्यंत देवानां ये प्रधानतः १६.
वाहनानि विमानानि योजयंतु ममामराः १६.
नानाश्चर्यगुणोपेता दुर्जया देवदानवैः १६.
यमो महिषमास्थाय सेनाग्रे समवर्तत १६.
कल्पकालोज्जवालापूरितांबरगोचरः १६.
पवनोंऽकुशपाणिस्तु विस्तारितमहाजवः १६.
भुजगेन्द्रं समारूढो जलेशो भगवान्स्वयम् १६.
नरयुक्ते रथे दिव्ये धनाध्यक्षो व्यचीचरत् १६.
राक्षसेशोऽथ निर्ऋती रथे रक्षोमुखैर्हयैः १६.
चंद्रादित्यावश्विनौ च वसवः साध्यदेवताः १६.
हेमपीठत्तरासंगाश्चित्रवर्मायुधध्वजाः १६.
तथा रक्तोत्तरासंगा निर्मलायोविभूषणाः १६.