ग्रसनस्य रथो युक्तो महामेघरवो बभौ १६.
कुजंभस्य रथो युक्तः पिशाचवदनैः खरैः १६.
मेषस्य द्वीपिभिर्भीमैः कुञ्जरैः कालनेमिनः १६.
चतुर्दंष्ट्रैर्गंधवद्भिश्चर्भिर्मेघसन्निभैः १६.
सितचामरजालेन शोभिते पुष्पदामनि १६.
किंकिणीमालिनं चोष्ट्रमारूढोऽभूच्च जंभकः १६.
अन्ये च दानवा वीरा नानावाहनहेतयः १६.
नानाविधोत्तरासंगा नानामाल्यविभूषणाः १६.
नानावाद्यपरिस्यंदसाग्रेसरमहारथाः १६.
तद्बलं दैत्यसिंहस्य भीमरूपं व्यदृश्यत १६.
स च दैत्येश्वरः क्रुद्धः समारूढो महारथम् जगद्धंतुं प्रवृत्तो वा प्रतस्थेऽसौ सुरान्प्रति॥ १६.
एतस्मिन्नंतरे वायुर्देवदूतः सुरालयम् १६.
स गत्वा तु सभां दिव्यां महेंद्रस्य महात्मनः १६.
तच्छ्रुत्वा देवराजः स निमीलितविलोचनः १६.
संप्राप्तोऽतिविमर्दोऽयं देवानां दानवैः सह १६.
एतच्छ्रुत्वा च वचनं महेंद्रस्य गिरांपतिः १६.
सामपूर्वं स्मृता नीतिश्चतुरंगामनीकिनीम् १६.
साम दानं च भेदश्च चतुर्थो दंड एव च १६.
तत्र साम प्रयोक्तव्यमार्येषु गुणवत्सु च १६.
दण्डश्चापि प्रयोक्तव्यो नित्यकालं दुरात्मसु १६.
श्रिया तेषां च किं कार्यं समृद्धानां तथापि यत् १६.
एको ह्युपायो दंडोऽत्र भवतां यदि रोचते १६.
लालितः पालितो वापि स्वस्वभावं न मुंचति १६.
एवमुक्तः सहस्राक्ष एवमेवेत्युवाच ह १६.
बहुमानेन मे वाचं श्रृणुध्वं नाकवासिनः॥ १६.
भवंतो यज्ञभोक्तारः सतामिष्टाश्च सात्त्विकाः १६.
भवतां च निमित्तेन बाधंते दानवेश्वराः १६.
क्रियतां समरे बुद्धिः सैन्यं संयोज्यतामिति १६.
इत्युक्ताः समनह्यंत देवानां ये प्रधानतः १६.
वाहनानि विमानानि योजयंतु ममामराः १६.