अस्माकं जातिधर्मेण विरूढं वैरमक्षयम् १५.
किं तु तत्तपसा साध्यं मन्येहं सुरसंगमम् १५.
ततः सुरान्विजेष्यामो भोक्ष्यामोऽथ जगत्त्रयम् १५.
अयुक्तश्चपलः प्राप्तामपि रक्षितुमक्षमः १५.
साधुसाध्वित्यथोचुस्ते वचनं तस्य विस्मिताः १५.
सर्वर्तुकुसुमाकीर्णनानौषधिविदिपितम् १५.
अनेकाकारबहुलं पृथक्पक्षिकुलाकुलम् १५.
प्राप्य तत्कंदरं दैत्यश्चकार विपुलं तपः १५.
निराहारः पंचतपा वर्षायुतमभूत्किल १५.
मांसस्याग्नौ जुहावैव ततो निर्मांसतां गतः १५.
जज्वलुः सर्वभूतानि तेजसा तस्य सर्वतः १५.
एतस्मिन्नंतरे ब्रह्मा परमं तोषमागतः १५.
प्राप्य तं शैलराजानं हंसस्यंदनमास्थितः १५.
उत्तिष्ठ पुत्र तपसो नास्त्यसाध्यं तवाधुना १५.
इत्युक्तस्तारको दैत्यः प्रांजलिः प्राह तं विभुम्॥ १५.
वयं प्रभो जातिधर्माः कृतवैराः सहमरैः १५.
तेषामहं समुद्धर्ता भवेयमिति मे मतिः १५.
स्यामहं चामरैश्चैष वरो मम हृदिस्थितः १५.
तमुवाच ततो दैत्यं विरंचोऽमरनायकः जातस्य हि ध्रुवो मृत्युः सत्यमेतच्छ्रुतीरितम्॥ १५.
इति संचिंत्य वरय वरं यस्मान्न शंकसे १५.
वासराणां च सप्तानां वर्जयित्वा तु बालकम् १५.
वव्रे महासुरो मृत्युं ब्रह्माणं मानमोहितः १५.
जगाम त्रिदिवं देवो दैत्योऽपि स्वकमालयम् १५.
परिवव्रुः फलाकीर्णं वृक्षं शकुनयो यथा १५.
ब्रह्मणाभिहि तस्थाने महार्णवतटोत्तरे १५.
कांतिर्द्युतिर्धृतिर्मेधा श्रीरखंडा च दानवम् १५.
कालागरुविलिप्तांगं महामुकुटमंडितम् १५.
नृत्यंत्यप्सरसः श्रेष्ठा गन्धर्वा गाययंति च ग्रहा अग्रेसरास्तस्य जीवादेशप्रभाषिणः॥ १५.
एवं स्वकाद्बाहुबलात्स दैत्यः संप्राप्य राज्यं परिमोदमानः १५.
राज्येन बुद्बुदाभेन स्त्रीभिरक्षैश्च पानकैः १६.