ज्ञात्वा तु तस्य संकल्पं ब्रह्मा क्रूरतरं पुनः १५.
उवाचैनं स भगवान्प्रभुर्मधुरया गिरा॥ १५.
किमर्थं भूय एव त्वं नियमं क्रूरमिच्छसि १५.
यावदब्दसहस्रेण निराहारेण वै फलम् १५.
त्यागो ह्यप्राप्तकामानां न तथा च गुरुः स्मृतः श्रुत्वैतद्ब्रह्मणो वाक्यं दैत्यः प्रांजलिरब्रवीत्॥ १५.
पत्न्यर्थेऽहं करिष्यामि तपो घोरं पितामह १५.
एतच्छ्रुत्वा वचो देवः पद्मगर्भोद्भवस्तदा १५.
अलं ते तपसा वत्स मा क्लेशे विस्तरे विश १५.
देवसीमंतिनीकाम्यधम्मिल्लकविमोक्षणः १५.
विसृज्य गत्वा महिषीं नंदया मास तां मुदा १५.
आहितं च ततो गर्भं वरांगी वरवर्णिनी १५.
ततो वर्षसहस्रांते वरांगी समसूयत १५.
चचाल सकला पृथ्वी प्रोद्धूताश्च महार्णवा १५.
जेपुर्जप्यं मुनिवरा व्याधविद्धा मृगा इव १५.
जाते महासुरे तस्मिन्सर्व एव महासुराः १५.
जगुर्हर्षसमाविष्टा ननृतुश्चासुरांगनाः १५.
विषण्णमनसो देवाः समहेंद्रास्तदाभवन् १५.
अभिषिक्तोऽसुरो दैत्यैः कुरंगमहिषादिभिः १५.
स तु प्राप्तमहाराज्यस्तारकः पांडुसत्तम १५.
श्रृणुध्वमसुराः सर्वे वाक्यं मम महाबलाः १५.
अस्माकं जातिधर्मेण विरूढं वैरमक्षयम् १५.
किं तु तत्तपसा साध्यं मन्येहं सुरसंगमम् १५.
ततः सुरान्विजेष्यामो भोक्ष्यामोऽथ जगत्त्रयम् १५.
अयुक्तश्चपलः प्राप्तामपि रक्षितुमक्षमः १५.
साधुसाध्वित्यथोचुस्ते वचनं तस्य विस्मिताः १५.
सर्वर्तुकुसुमाकीर्णनानौषधिविदिपितम् १५.
अनेकाकारबहुलं पृथक्पक्षिकुलाकुलम् १५.
प्राप्य तत्कंदरं दैत्यश्चकार विपुलं तपः १५.
निराहारः पंचतपा वर्षायुतमभूत्किल १५.
मांसस्याग्नौ जुहावैव ततो निर्मांसतां गतः १५.