क्षमया च महाभागा क्रोधमण्वपि नाकरोत् १४.
अग्निरूपेण तस्याश्च स ददाह महाश्रमम् एवं सिहवृकाद्याभिर्भीषिकाभिः पुनःपुनः॥ १४.
विरराम यदा नैव वज्रांगमहिषी तदा १४.
तां शापाभिमुखीं दृष्ट्वा शैलः पुरुषाविग्रहः १४.
नाहं महाव्रते दुष्टः सेव्योऽहं सर्वदेहिनाम् १४.
एतस्मिन्नंतरे जातः कालो वर्षसहस्रिकः १४.
तुष्टः प्रोवाच वज्रांगं तमागम्य जलाशये॥ १४.
ददामि सर्वकामांस्ते उत्तिष्ठ दितिनन्दन उवाच प्रांजलिर्वाक्यं सर्वलोकपितामहम्॥ १४.
आसुरो मेऽस्तु मा भावः शक्रराज्ये च मा रतिः १४.
एवमस्त्विति तं ब्रह्मा प्राह विस्मितमानसः १४.
ऋषयो मनुजा देवाः शिवब्रह्ममुखा अपि १४.
इति चिंत्य विरिंचोऽपि तत्रैवांतरधीयत १४.
आहारमिच्छन्स्वां भार्यां न ददर्शाश्रमे स्वके १४.
विलोकयन्स्वकां भार्यां विधित्सुः कर्म नैत्यकम् १४.
रुदन्तीं स्वां प्रियां दीनां तरुप्रच्छादिताननाम् १४.
केन तेऽपकृतं भीरु वर्तंत्यास्तपसि स्वके कं वा कामं प्रयच्छामि शीघ्रं प्रब्रूहि भामिनि॥ १४.
गृहेश्वरीं सद्गुणभूषितां शुभां पंग्वंधयोगेन पतिं समेताम् १४.
नाशितास्म्यपविद्धास्मि त्रासिता पीडितास्मि च १५.
दुःखपारमपश्यंती प्राणांस्त्यक्तुं व्यवस्थिता १५.
एवमुक्तस्तु दैत्येंद्रो दुःखितोऽचिंतयद्धृदि १५.
तथापि मन्ये शास्त्रैभ्यस्त्वनुकंप्या प्रियेति यत् १५.
व्यसनार्णवमत्येति जलयानैरिवार्णवम् १५.
गेहिनो हेलया जिग्युर्दस्यून्दूर्ग पतिर्यथा १५.
अथायुषा वा कार्त्स्न्येन धर्मे दित्सुर्यथैव च १५.
भर्तव्या एव यस्माच्च तस्माद्भार्येति सा स्मृता १५.
संसारकल्मषात्त्रात्री कलत्रमिति सा ततः १५.
त्रीणि ज्योतींषि पुरुष इति वै देवलोऽब्रवीत् १५.
तदेनां पीडितां चेद्यः पतिर्भूत्वा न पालये १५.
अह मप्येनमिंद्रं वै शक्तो जेतुं यथाऽनृणाम् १५.
इति संचिंत्य वज्रांगः कोपव्याकुललोचनः १५.