अस्मद्वाक्येन यो मुक्तो जीवन्नपि मृतो हि सः १४.
कृत्वा मानपरिग्लनिं ये मुंचंति वरा हि ते १४.
तथा पितुर्वचः कार्यं मुंचामुं पुत्र वासवम् १४.
न मे कृत्यमनेनास्ति मातुराज्ञा कृता मया १४.
करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः १४.
परभुक्ता यथा नारी परभुक्तामिवस्रजम् १४.
तपसो न परं किंचित्तपो हि महतां धनम् १४.
तपसे मे रतिर्देव न विघ्नं तत्र मे भवेत् १४.
क्रूरभावं परित्यज्य यदीच्छसि तपः सुत १४.
इत्युक्त्वा पद्मजः कन्यां ससर्ज्जयतलोचनाम् १४.
वरांगीति च नामास्याः कृतवांश्च पितामहः १४.
वज्रांगोऽपि तया सार्धं जगाम तपसे वनम् १४.
कालं कमलपत्राक्षः शुद्धबुद्धिर्महातपाः १४.
निराहारो घोरतपास्तपोराशिरजायत १४.
जलांतरप्रविष्टस्य तस्य पत्नी महाव्रता १४.
निराहारं पतिं मत्वा तपस्तेपे पतिव्रता १४.
भूत्वा तु मर्कटाकारस्तस्याअभ्याशमागतः १४.
तथा विलोलवसनां विलोलवदनां तथा १४.
ततश्च मेषरूपेण क्लेशं तस्याश्चकार सः १४.
अपाकर्षत दूरं स तस्माद्देवभृतस्तथा १४.
क्षमया च महाभागा क्रोधमण्वपि नाकरोत् १४.
अग्निरूपेण तस्याश्च स ददाह महाश्रमम् एवं सिहवृकाद्याभिर्भीषिकाभिः पुनःपुनः॥ १४.
विरराम यदा नैव वज्रांगमहिषी तदा १४.
तां शापाभिमुखीं दृष्ट्वा शैलः पुरुषाविग्रहः १४.
नाहं महाव्रते दुष्टः सेव्योऽहं सर्वदेहिनाम् १४.
एतस्मिन्नंतरे जातः कालो वर्षसहस्रिकः १४.
तुष्टः प्रोवाच वज्रांगं तमागम्य जलाशये॥ १४.
ददामि सर्वकामांस्ते उत्तिष्ठ दितिनन्दन उवाच प्रांजलिर्वाक्यं सर्वलोकपितामहम्॥ १४.
आसुरो मेऽस्तु मा भावः शक्रराज्ये च मा रतिः १४.
एवमस्त्विति तं ब्रह्मा प्राह विस्मितमानसः १४.