दशवर्षसहस्राणि तपोनिष्ठा तु तप्स्यसे १४.
वज्रांगोनाम पुत्रस्ते भविता धर्मवत्सलः १४.
दशवर्षसहस्राणि तपो घोरं समाचरत् १४.
पुत्रमप्रतिकर्माणमजेयं वज्रदुश्छिदम् १४.
उवाच मातरं भक्त्या मातः किं करवाण्यहम् १४.
बहवो मे हताः पुत्राः सहस्राक्षेण पुत्रक १४.
बाढमित्येव सं प्रोच्य जगाम त्रिदिवं बली १४.
पादेनाकृष्य देवेंद्रं सिंहः क्षुद्रमृगं यथा १४.
एतस्मिन्नंतरे ब्रह्मा कश्यपश्च महातपाः १४.
मुंचामुं पुत्र याचंतं किमनेन प्रयोजनम् १४.
अस्मद्वाक्येन यो मुक्तो जीवन्नपि मृतो हि सः १४.
कृत्वा मानपरिग्लनिं ये मुंचंति वरा हि ते १४.
तथा पितुर्वचः कार्यं मुंचामुं पुत्र वासवम् १४.
न मे कृत्यमनेनास्ति मातुराज्ञा कृता मया १४.
करिष्ये त्वद्वचो देव एष मुक्तः शतक्रतुः १४.
परभुक्ता यथा नारी परभुक्तामिवस्रजम् १४.
तपसो न परं किंचित्तपो हि महतां धनम् १४.
तपसे मे रतिर्देव न विघ्नं तत्र मे भवेत् १४.
क्रूरभावं परित्यज्य यदीच्छसि तपः सुत १४.
इत्युक्त्वा पद्मजः कन्यां ससर्ज्जयतलोचनाम् १४.
वरांगीति च नामास्याः कृतवांश्च पितामहः १४.
वज्रांगोऽपि तया सार्धं जगाम तपसे वनम् १४.
कालं कमलपत्राक्षः शुद्धबुद्धिर्महातपाः १४.
निराहारो घोरतपास्तपोराशिरजायत १४.
जलांतरप्रविष्टस्य तस्य पत्नी महाव्रता १४.
निराहारं पतिं मत्वा तपस्तेपे पतिव्रता १४.
भूत्वा तु मर्कटाकारस्तस्याअभ्याशमागतः १४.
तथा विलोलवसनां विलोलवदनां तथा १४.
ततश्च मेषरूपेण क्लेशं तस्याश्चकार सः १४.
अपाकर्षत दूरं स तस्माद्देवभृतस्तथा १४.