वेदारण्यं विजानीषे यस्मिन्प्रमथनायकः 1.3.2.2.
हेमकूटं त्वमश्रौषीः स्थानं विषमचक्षुषः
क्षेत्रं वेणुवनंनाम विद्यते पापनाशनम्
जालंधरमिति स्थानमंधकारेस्त्वया श्रुतम्
ज्वालामुखमिति स्थानमज्ञासीः कथितं मया
अस्ति भद्रवटोनाम क्षेत्रमुक्तं श्रुतं त्वया
न्यग्रोधारण्यमुक्तं ते यत्रोग्रो निर्ममे किल
गंधमादनसंज्ञं तत्क्षेत्रमाकर्णितं त्वया
गोपर्वतमिति स्थानं शंभोः प्रख्यापितं मया
वीरकोष्ठमिति क्षेत्रस्थानं नन्ववधारितम्
महातीर्थमिति प्रोक्तं जानीषे यत्र शंभुना 1.3.2.2.
मयूरपुरमुक्तं ते क्षेत्रं माहेश्वरं मया
श्रीसुंदरमिति क्षेत्रमुक्तं वेगवती तटे
कुंभकोणमिति स्थानं शंभोर्वेत्सि हि यत्र सा
अनुगोदावरीतीरं त्र्यंबकंनाम ते श्रुतम्
श्रीपाटलं व्याघ्रपुरमाख्यातं वेदवित्तम
क्षेत्रं कदंबपुर्य्याख्यं भवता चावधारितम्
अविनाशाख्यमुक्तं ते क्षेत्रं यत्र वृषध्वजः
रक्तैकाननमाख्यातं मया क्षेत्रं तवानघ
श्रीहाटकेश्वरं क्षेत्रं पातालस्थं त्वया श्रुतम्
वेत्सि शंभोः प्रियावासं कैलासं नित्यसेवकः 1.3.2.2.
स्थानानि खंडपरशोरित्युक्तानि मया पुरा
इत्यूचिवानेष शिलादनंदनो मुनेर्मृकण्डोस्तनयं मुनीश्वरम्
किं मादृशोऽस्ति ते शिष्यस्त्वत्कृपैवात्र साक्षिणी
स्थानेषु प्राक्त्वदुक्तेषु फलानि च पृथक्पृथक्
चराचराणां भूतानां जानतामप्यजानताम्
पश्यैतेन मयैकेन भगवान्नानुराध्यसे
पुलहेन पुलस्त्येन वशिष्ठेन मरीचिना
जाबालिना जैमिनिना धौम्येन जमदग्निना
पिप्पलादेन कण्ठेन कुमुदेनोपमन्युना