अजकः शासनः शास्ता शंभुश्चांत्यो भवस्तथा १४.
प्रजापतेरंगिरसः स्वधा पत्नी पितॄनथ १४.
कृशाश्वस्य च द्वे भार्ये अर्चिश्च दिषणा तथा १४.
पतंगी यामिनी ताम्रा तिमिश्चारिष्टनेमिनः १४.
ताम्रायाः श्येनगृध्राद्यास्तिमेर्यादोगणास्तथा १४.
श्रृणु नामानि लोकानां मातॄणां शंकराणि च १४.
अरिष्टा विनता ग्रावा दया क्रोधवशा इरा १४.
आदित्याश्चादितेः पुत्रा दितेर्दैत्याः प्रकीर्तिताः १४.
दनायुषस्तथा जातो दनायुश्च गणो बली १४.
विनतासूत अरुणं गरुडं च महाबलम् १४.
जातः क्रोधवशायाश्च इराया भूरुहाः स्मृताः १४.
तत्र द्वौ तनयौ यौ च दितेस्तौ विष्णुना हतौ १४.
ततो निहतपुत्रा सा दितिराराध्य कश्यपम् १४.
समरे शक्रहंतारं स तस्या अददात्प्रभुः १४.
इत्युक्ता सा तथा चक्रे पुष्करस्था समाहिता १४.
उपासामाचरद्भक्त्या सा चैनमन्वमन्यत १४.
उवाच शक्रं सुप्रीता भक्त्या शक्रस्य तोषिता दितिरुवाच १४.
भविष्यति तव भ्राता तेन सार्धमिमां श्रियम् १४.
इत्युक्त्वा निद्रयाविष्टा चरणाक्रांतमूर्धजा १४.
तत्तु रंध्रमवेक्ष्यैव योगमूर्तिस्तदाविशत् १४.
एकैकं च पुनः खण्डं चकार मघवा ततः १४.
न हंतव्यो न हंतव्य इति सा शक्रमब्रवीत् १४.
ततः शक्रश्च मा रोदीरिति तांस्तान्यथाऽवदत् १४.
उवाच वाक्यं चात्रस्तो मातरं रिषपूरिताम् १४.
सुप्ताथ सुचिरं वाते धिन्नो गर्भो मया तव १४.
सत्यं भवतु ते वाक्यं सार्धं भोक्ष्यामि तैः श्रियम् १४.
मा रोदीरिति मे प्रोक्ताः ख्याताश्च मरुतस्त्विति १४.
सार्धं तैर्गतवानिंद्रो दिगंते वायवः स्मृताः १४.
पुत्रं मे भगवन्देहि शक्रहंतारमूर्जितम् १४.
न ददास्युत्तरं विद्धि मृतामेव प्रजापते १४.