बकोलूकगृध्रकूर्मा इन्द्रद्युम्न च पार्थिव १३.
लोमशश्चापि मार्कंडो जीवन्मुक्तौ भविष्यतः १३.
इन्द्रद्युम्नेश्वरं नाम महाकालाख्यमित्युत १३.
त्रिरम्यमतुलं लिंगं संस्थाप्येदमुवाच ह १३.
इन्द्रद्युम्नेश्वरं लिंगं नंदताच्छाश्वतीः समाः १३.
अत्र यो नियतं लिंगमैंद्रद्युम्नं प्रपूजयेत् १३.
इत्युक्त्वा सह तैश्चैव पंचभिः शशिशेखरः १३.
एवं प्रभावो राजाभूदिंद्रद्युम्नो महीपतिः १३.
एवंविधःस पुण्योऽयं महीसागरसंगमः १३.
स्नात्वात्र संगमे यश्च इन्द्रद्युम्नेश्वरं नरः १३.
सर्वबन्धहरं लिंगं गाणपत्यप्रदं त्विदम् १३.
इतीदमुक्तं तव पुण्यकारि माहात्म्यमस्योत्तमसंगमस्य १३.
कुमारनाथमाहात्म्यं यत्त्वयोक्तं कथांतरे १४.
तारकं विनिहत्यैव वज्रांगतनयं प्रभुः १४.
दर्शनाच्छ्रवणाद्ध्यानात्पूजया श्रुतिवंदनैः १४.
अत्याश्चर्यमयी रम्या कथेयं पापनाशिनी १४.
वज्रांगः कोप्यसौ दैत्यः किंप्रभावश्च तारकः १४.
कथं संस्थापितं लिंगं कुमारेश्वरसंज्ञितम् १४.
प्रणिपत्य कुमाराय सेनान्ये चेश्वराय च १४.
मानसो ब्रह्मणः पुत्रो दक्षो नाम प्रजापतिः १४.
ददो स दश धर्माय कश्यपाय त्रयोदश १४.
भूतांगिरः कृशाश्वेभ्यो द्वेद्वे चैव ददौ प्रभुः १४.
यासां प्रसूतिप्रभवा लोका आपूरितास्त्रयः १४.
वसुर्सुहूर्ता संकल्पा धर्मपत्न्यः सुताञ्छृणु १४.
विद्योत आसील्लंबायां ततश्च स्तनयित्नवः १४.
भुवो दुर्गस्तथा स्वर्गो नंदश्चैव ततोऽभवत् १४.
साध्या द्वादश साध्याया अर्थसिद्धिस्तु तत्सुतः १४.
नरनारायणौ प्राहुर्यौ तौ ज्ञानविदो जनाः १४.
ये वै फलं प्रयच्छंति भूतानां स्वं स्वकालजम् १४.
सुरूपासूत तनयान्रुद्रानेकादशैव तु १४.