अप्यन्नजं च मनवो गिरिशेति च नाम च १३.
यवजं देवलो लिंगं पतिमित्येव नाम च १३.
प्रतर्दनो बाणलिंगं हिरण्यभुजनाम च १३.
निष्पावजं दानवाश्च लिंगनाम च दिक्पतिम् १३.
राजमाषमयं यक्षा नाम भूतपतिं स्मृतम् १३.
गौतमो गोरजमयं नाम गोपतिरेव च १३.
स्कंदः पाषाणलिंगं च नाम सेनान्य एव च १३.
पुरोडाशमयं यज्वा स्रुवहस्तेति नाम च १३.
यवांकुरं जामदग्न्यो भर्गदैत्येति नाम च १३.
मांधाता शर्करालिंगं नाम बाहुयुगेति च १३.
साध्या भर्तृमयं लिंगं नाम विश्वपतिः स्मृतम् १३.
तार्क्ष्यं पृथुस्तथा लिंगं सहस्रचरणाभिधम् १३.
पृथिवी मेरुलिंगं च द्वितनुश्चास्य नाम च १३.
ऋषयो ज्ञानलिंगं च चिरस्थानेति नाम च १३.
गोरोचनमयं शेषो नाम पशुपतिः स्मृतम् १३.
तक्षकः कालकूटाख्यं बहुरूपेति नाम च १३.
श्रृंगी विषमयं पद्मो नाम धूर्जटिरेव च १३.
पारदं च शिवा देवी नाम त्र्यम्बक एव च १३.
एवं किं बहुनोक्तेन यद्यत्सत्त्वं विभूतिमत् १३.
भस्मनो यदि वृक्षत्वं ज्ञायते नीरसेवनात् १३.
धर्मार्थकाममोक्षाणां यदि प्राप्तौ भवेन्मतिः १३.
य इदं शतरुद्रीयं प्रातःप्रातः पठिष्यति १३.
नातः परं पुण्यतमं किंचिदस्ति महाफलम् १३.
वाचा च यत्कृतं पापं मनसा वाप्युपार्जितम् १३.
रोगार्तो मुच्यते रोगाद्बद्धो मुच्येत बन्धनात् १३.
नाम्नां शतेन यः कुम्भैः पुष्पैस्तावद्भिरीश्वरम् १३.
लिंगानां शतमेतच्च शतमाराधकास्तथा १३.
विशेषादेषु लिंगेषु यः पठिष्यति पंचसु १३.
निशम्यैवं प्रार्थ्यतेऽपि गुप्तक्षेत्रे मुदान्विताः १३.
ततो बहुतिथे काले प्रत्यक्षीभूय शंकरः १३.