नारदस्त्वंतरिक्षे च जदद्बीजमिदं गृणन् १३.
सूर्यस्ताम्रं तथा लिंगं नाम विश्वसृजं जपन् १३.
इंद्रनीलमयं वह्निर्नाम विश्वेश्वरं जपन् १३.
पद्मरागमयं शुक्रो विश्वकर्मेति नाम च १३.
रौप्यजं विश्वदेवाश्च नामापि जगतांपतिम् १३.
काशजं वसवो लिंगं स्वयंभुमिति नाम च १३.
लौहं च रक्षसां नाम भूतभव्यभवोद्भवम् १३.
जैगीषव्यो ब्रह्मरन्ध्रं नाम योगेश्वरं जपन् १३.
धन्वंतरिर्गोमयं च सर्वलोकेश्वरेश्वरम् १३.
वैडूर्यं राघवो लिंगं जगज्ज्येष्ठेति नाम च १३.
वरुणः स्फाटिकं लिंगं नाम्ना च परमेश्वरम् १३.
भारती तारलिंगं च नाम लोकत्रयाश्रितम् १३.
शनिदेशे मध्यरात्रौ महीसागरसंगमे १३.
सिद्धाश्च मानसं नाम काममृत्युजरातिगम् १३.
मरीचिपाः पुष्पजं च ज्ञानगम्येति नाम च १३.
फेनपाः फेनजं लिंगं नाम चापि सुदुर्विदम् १३.
सारस्वतो वाचिलिंगं नाम वागीश्वरेति च १३.
जांबूनदमयं देवाः शितिकण्ठेति नाम च १३.
अश्विनौ मृन्मयं लिंगं नाम्ना चैव सुवेधसम् १३.
नावनीतं कुजो लिंगं नाम चापि करालकम् १३.
गौडं कामस्तथा लिंगं रतिदं चेति नाम च १३.
विश्वकर्मा च प्रासादलिंगं याम्येति नाम च वंशांकुरोत्थं सगरो नाम संगतमेव च॥ १३.
राहुश्च रामठं लिंगं नाम गम्येति कीर्तयन् १३.
योगिनः सर्वभूतस्थं स्थाणुरित्येव नाम च १३.
तेजोमयं च ऋक्षाणि भगं नाम च भास्वरम् १३.
देवदेवेति नामास्ति लिंगं च ब्रह्मराक्षसाः १३.
सप्तलोकमयं साध्या बहूरूपेति नाम च १३.
कौंकुममप्सरसो लिंगं नाम शंभोः प्रियेति च १३.
ब्रह्मचारि गुरुर्लिंगं नाम चोष्णीषिणं विदुः १३.
श्रीखंडं सिद्धयोगिन्यः सहस्राक्षेति नाम च १३.