बभ्रुं च नकुलं प्राह विमुक्तो दुष्टजन्मतः १३.
तस्माद्व्रजध्वं तत्रैव महीसागरसंगमम् १३.
इत्येवमुक्त्वा संवर्तो ययावभिमतं द्विजः १३.
ततस्तानाह स ज्ञात्वा गणाञ्ज्ञानेन शांभवान् १३.
भवन्तोऽभ्यागता यत्र महीसागरसंगमः १३.
अक्षयं जायते सर्वं महीसागर संगमे १३.
यदात्र स्तानकं चक्रे देवर्षिर्नारदः पुरा १३.
शनैश्चरेण संयुक्ता त्वमावास्या यदा भवेत् १३.
यदि श्रावणमासस्य शनैश्चरदिने शुभा १३.
तस्यामेव तिथौ योगो व्यतीपातो भवेद्यदि १३.
सर्वयोगसमावापः सथंचिदपि लभ्यते १३.
महीसागरसंसर्गे पूजयीत यथाविधि १३.
अर्घ्यं दद्याद्भाकरस्य सर्वपापप्रशांतये १३.
पिंडदानं गयाक्षेत्रादधिकं पांडुनंदन १३.
पितॄणामक्षया तृप्तिर्जायते दिवि निश्चितम् १३.
तथा समधिकः पुण्यो महीसागरसंगमः॥ १३.
अग्निश्च रेतो मृडया च देहे रेतोधा विष्णुरमृतस्य नाभिः १३.
मुखं च यः सर्वनदीषु पुण्यः पाथोधिरंबा प्रवरा मही च १३.
ताम्रा रस्याः पयोवाहाः पितृप्रीतिप्रदाः शभाः इन्द्रद्युम्नस्य कन्या च क्षितिजन्मा रावती॥ १३.
महीपर्णा महीशृंगा गंगा पश्चिमवाहिनी १३.
स्नानकाले च सर्वत्र श्राद्धकाले पठेन्नरः १३.
महीदोहे महानंदसंदोहे विश्वमोहिनि १३.
कंकणं रजतस्यापि योऽत्र निक्षिपते नरः १३.
महीं च सागरं चैव रौप्यकंकण पूजया १३.
यत्फलं सर्वतीर्थेषु सर्वयज्ञैश्च यत्फलम् १३.
विवादे च समुत्पन्ने अपराधी च यो मतः १३.
संस्नाप्याघोरमंत्रेण स्थाप्य नाभिप्रमाणके १३.
यदि धर्मोऽत्र सत्योऽस्ति सत्यश्चेत्संगमस्त्वसौ १३.
एवमुक्त्वा करं क्षिप्य दक्षिणं सकलं ततः १३.
सप्ताहाद्दृश्यते चापि तावन्निर्दोषवान्मतः १३.