तस्मात्सदा महद्भिश्च आत्मार्थं च परार्थतः १३.
यस्मात्त्वया पीडितोऽहं घोरेण वचसा मुने १३.
नकुलोऽसीति मामाह भवांस्तस्मात्कुलाधमः १३.
इति वाचं समाकर्ण्य भाव्यर्थकृतनिश्चयः १३.
दुराचारस्य पापस्य निघृणस्यातिवादिनः १३.
सोऽथ ज्ञानात्समालोक्य भर्तृयज्ञ इति द्विजः १३.
तत्र पाशुपतो भूत्वा शिवाराधनतत्परः १३.
यो हि नित्यं महाकालं श्रद्धया पूजयेत्पुमान् १३.
यथायथा श्रद्धयासौ तल्लिंगं परिपश्यति १३.
भर्तृयज्ञस्तु तत्रैव लिंगस्याराधनात्क्रमात् १३.
बभ्रुं च नकुलं प्राह विमुक्तो दुष्टजन्मतः १३.
तस्माद्व्रजध्वं तत्रैव महीसागरसंगमम् १३.
इत्येवमुक्त्वा संवर्तो ययावभिमतं द्विजः १३.
ततस्तानाह स ज्ञात्वा गणाञ्ज्ञानेन शांभवान् १३.
भवन्तोऽभ्यागता यत्र महीसागरसंगमः १३.
अक्षयं जायते सर्वं महीसागर संगमे १३.
यदात्र स्तानकं चक्रे देवर्षिर्नारदः पुरा १३.
शनैश्चरेण संयुक्ता त्वमावास्या यदा भवेत् १३.
यदि श्रावणमासस्य शनैश्चरदिने शुभा १३.
तस्यामेव तिथौ योगो व्यतीपातो भवेद्यदि १३.
सर्वयोगसमावापः सथंचिदपि लभ्यते १३.
महीसागरसंसर्गे पूजयीत यथाविधि १३.
अर्घ्यं दद्याद्भाकरस्य सर्वपापप्रशांतये १३.
पिंडदानं गयाक्षेत्रादधिकं पांडुनंदन १३.
पितॄणामक्षया तृप्तिर्जायते दिवि निश्चितम् १३.
तथा समधिकः पुण्यो महीसागरसंगमः॥ १३.
अग्निश्च रेतो मृडया च देहे रेतोधा विष्णुरमृतस्य नाभिः १३.
मुखं च यः सर्वनदीषु पुण्यः पाथोधिरंबा प्रवरा मही च १३.
ताम्रा रस्याः पयोवाहाः पितृप्रीतिप्रदाः शभाः इन्द्रद्युम्नस्य कन्या च क्षितिजन्मा रावती॥ १३.
महीपर्णा महीशृंगा गंगा पश्चिमवाहिनी १३.