सुवर्णमुखरीतीरे कालहस्तीति शंकरः 1.3.2.2.
कांच्यामेकाम्रमूलस्थः कामाक्ष्या कामशासनः
अस्ति व्याघ्रपुरंनाम तिल्लिकाननमध्यगम्
श्वेतारण्यमिति स्थानमुक्तं तव मया पुरा
सेतुबंधमिति स्थानमवोचं तत्र राघवः
गतप्रत्याह्वय स्थानं विद्यते वृषभध्वजः
मणिमुक्तानदीमन्वक्क्षेत्रे वृद्धाचलाह्वये
श्रीमन्मध्यार्जुनंनाम श्रुतं स्थानमनुत्तमम्
आस्थितं सोमनाथेन सोमतीर्थं त्वया श्रुतम्
आकर्णितं हि भवता क्षेत्रं सिद्धवटाह्वयम्
अश्रावि खलु ते क्षेत्रं कमलालयसंज्ञकम् 1.3.2.2.
श्रुतवानसि कंकाद्रिं यत्र संनिहितो हरः
श्रीमद्द्रोणपुरं वेत्सि यस्मिन्कलियुगक्षये
श्रुतं ब्रह्मपुरंनाम क्षेत्रं यत्रेंद्रजित्पुरा
श्रीकोटिकाख्यं ज्ञानाभिक्षेत्रं यत्रेंदुशेखरः
आकर्णितं च गोकर्णं शिवं यत्संनिधानतः
त्रिपुरांतकमुक्तं ते क्षेत्रं यत्र त्रियंबकः
उक्तं कालांजनं क्षेत्रं यद्वासी कालकंधरः
प्रियालवणमाख्यातं क्षेत्रं यत्रांबिकापतिः
क्षेत्रं प्रभासमुक्तं ते यत्र खंडेंदुशेखरः
वेदारण्यं विजानीषे यस्मिन्प्रमथनायकः 1.3.2.2.
हेमकूटं त्वमश्रौषीः स्थानं विषमचक्षुषः
क्षेत्रं वेणुवनंनाम विद्यते पापनाशनम्
जालंधरमिति स्थानमंधकारेस्त्वया श्रुतम्
ज्वालामुखमिति स्थानमज्ञासीः कथितं मया
अस्ति भद्रवटोनाम क्षेत्रमुक्तं श्रुतं त्वया
न्यग्रोधारण्यमुक्तं ते यत्रोग्रो निर्ममे किल
गंधमादनसंज्ञं तत्क्षेत्रमाकर्णितं त्वया
गोपर्वतमिति स्थानं शंभोः प्रख्यापितं मया
वीरकोष्ठमिति क्षेत्रस्थानं नन्ववधारितम्