य एकांततयात्यंतमंतर्गततमोपहः १३.
सर्वे वराः सुधाकाराः शर्करामधुषड्रसाः १३.
आरेभिरे क्रियायोगं मार्कंडनृपपूर्वकाः तीर्थयात्रानुषंगेन लोमशालोकनोत्सुकः॥ १३.
मुख्या पुरुषयात्रा हि तीर्थयात्रानुषंगतः १३.
कृतार्हणातिथ्यविधिं विश्रांतं मां च फाल्गुन १३.
शापभ्रष्टा वयं ब्रह्मंश्चत्वारोऽपि स्वकर्मणा १३.
इयं हि निष्फला भूमिः शपलं भारतं मुने॥ १३.
तत्रापि क्वचिदेकत्र सर्वतीर्थफलं वद १३.
संवर्तं परिपृच्छध्वं स वो वक्ष्यति तत्त्वतः १३.
कुत्रासौ विद्यते योगी नाज्ञासिष्म वयं च तम् १३.
यदि जानासि तं ब्रूहि सुहृत्संगो न निष्फलः १३.
वाराणस्यामसावास्ते संवर्तो गुप्तलिंगभृत् १३.
करपात्रकृताहारः सर्वथा निष्परिग्रहः १३.
भुक्त्वा निर्याति सायाह्ने वनं न ज्ञायते जनैः १३.
वक्ष्यामि लक्षणं तस्य ज्ञास्यथ तं मुनिम् १३.
अविज्ञातं स्थापनीयं स्थेयं तदविदूरतः १३.
स संवर्तो न चाक्रामत्येष शल्यमसंशयम् १३.
यदि पृच्छति केनाहमाख्यात इति मां ततः १३.
तच्छ्रुत्वा ते तथा चक्रुः सर्वेपि वचनं मम १३.
शवं दृष्ट्वा च तैर्न्यस्तं संवर्तो वै न्यवर्तत १३.
तिष्ठ ब्रह्मन्क्षणमिति जल्पंतो राजमार्गगम् १३.
समया मामरे भोऽद्य नागंतव्यं न वो हितम् कुपितः प्राह तान्सर्वान्केनाख्यातोऽहमित्युत॥ १३.
निवेदयत शीघ्रं मे यथा भस्म करोमि तम् १३.
अथ प्रकंपिताः प्राहुर्नारदेनेति तं मुनिम् १३.
लोकानां येन सापाग्नौ भस्मशेषं करोमि तम् १३.
त्वं निवेद्य स चास्माकं प्रविष्टो हव्यवाहनम् १३.
अहमप्येवमेवास्य कर्ता तेन स्वयं कृतम् १३.
यदि नारद देवर्षे प्रविष्टोऽसि हुताशनम् १३.
न हुताशः समुद्रो वा वायुर्वा वृक्षपर्वतः १३.
पुनरेतत्कृतं चापि संवर्तो मन्यते यथा १३.