नंदीश्वरस्य तेनैव वपुषा शिवपूजनात् १२.
श्वेतस्य च महीपस्य श्रीकंठं च नमस्यतः १२.
यदिच्छया विश्वमिदं जायते व्यवतिष्ठते १२.
एतद्रहस्यमिदमेव नृणां प्रधानं कर्तव्यमत्र शिवपूजनमेव भूप १२.
इति तस्य मुनींद्रस्य भूपतिः शुश्रुवान्वचः १३.
लिंगमाराधयिष्येऽद्य सर्वसिद्धिप्रदं नृणाम् १३.
तद्भूपतिवचः श्रुत्वा बको गृध्रोऽथ कच्छपः १३.
स च सर्वसुहृद्विप्रस्तथेत्येवाह तांस्तदा १३.
शिवदीक्षाविधानेन लिंगपूजां समादिशत् तीर्थादप्यधिकं स्थाने सतां साधुसमागमः॥ १३.
पचेलिमफलः सद्यो दुरंतकलुपापहः १३.
य एकांततयात्यंतमंतर्गततमोपहः १३.
सर्वे वराः सुधाकाराः शर्करामधुषड्रसाः १३.
आरेभिरे क्रियायोगं मार्कंडनृपपूर्वकाः तीर्थयात्रानुषंगेन लोमशालोकनोत्सुकः॥ १३.
मुख्या पुरुषयात्रा हि तीर्थयात्रानुषंगतः १३.
कृतार्हणातिथ्यविधिं विश्रांतं मां च फाल्गुन १३.
शापभ्रष्टा वयं ब्रह्मंश्चत्वारोऽपि स्वकर्मणा १३.
इयं हि निष्फला भूमिः शपलं भारतं मुने॥ १३.
तत्रापि क्वचिदेकत्र सर्वतीर्थफलं वद १३.
संवर्तं परिपृच्छध्वं स वो वक्ष्यति तत्त्वतः १३.
कुत्रासौ विद्यते योगी नाज्ञासिष्म वयं च तम् १३.
यदि जानासि तं ब्रूहि सुहृत्संगो न निष्फलः १३.
वाराणस्यामसावास्ते संवर्तो गुप्तलिंगभृत् १३.
करपात्रकृताहारः सर्वथा निष्परिग्रहः १३.
भुक्त्वा निर्याति सायाह्ने वनं न ज्ञायते जनैः १३.
वक्ष्यामि लक्षणं तस्य ज्ञास्यथ तं मुनिम् १३.
अविज्ञातं स्थापनीयं स्थेयं तदविदूरतः १३.
स संवर्तो न चाक्रामत्येष शल्यमसंशयम् १३.
यदि पृच्छति केनाहमाख्यात इति मां ततः १३.
तच्छ्रुत्वा ते तथा चक्रुः सर्वेपि वचनं मम १३.
शवं दृष्ट्वा च तैर्न्यस्तं संवर्तो वै न्यवर्तत १३.