परोपकरणं नाम साधूनां व्रतमाहितम् १२.
अप्रणोद्येषु पापेषु साधु प्रोक्तमसंशयम् १२.
अप्रमत्तः प्रणोद्येषु मुनिरेष प्रयच्छति १२.
कूर्म युक्तमिदं सर्वं त्वयाभिहितमद्य नः १२.
ब्रूहि राजन्सुविश्रब्धं सन्देहं हृदयस्थितम् १२.
भगवन्प्रथमः प्रश्रस्तावदेव ममोच्यताम् १२.
कुटीमात्रोऽपि यच्छाया तृणैः शिरसि पाणिगैः॥ १२.
मर्तव्यमस्त्यवश्यं च काय एष पतिष्यति १२.
यस्य मृत्युर्भवेन्मित्रं पीतं वाऽमृतमुत्तमम् १२.
इदं युगसहस्रेषु भविष्यमभविद्दिनम् १२.
कारणानुगतं कार्यमिदं शुक्रादभूद्वपुः १२.
तदस्यापि कृते पापं शत्रुषड्वर्गनिर्जिताः १२.
तद्ब्रह्मण इहोत्पन्नः सिकताद्वयसम्भवः १२.
तथापि वैष्णवी माया मोहयत्यविवेकिनम् १२.
दन्ताश्चलाश्चला लक्ष्मीर्यौवनं जीवितं नृप १२.
इति विज्ञाय संसारसारं च चलाचलम् १२.
चिरायुर्भगवानेव श्रूयते भुवनत्रये १२.
प्रतिकल्पं मच्छरीरादेकरोमपरिक्षयः १२.
पश्य जानुप्रदेशं मे द्व्यंगुलं रोमवर्जितम् १२.
इत्थं निशम्य तद्वाक्यं स प्रहस्यातिविस्मितः १२.
पृच्छामि त्वामहं ब्रह्मन्यदायुरिदमीदृशम् १२.
श्रृणु भूप प्रवक्ष्यामि पूर्वजन्मसमुद्भवाम् १२.
अहमासं पुरा शूद्रो दरिद्रोऽतीवभूतले १२.
ततो मया महल्लिंगं जालिमध्यगतं तदा १२.
ततः प्रविश्य तद्वारि पीत्वा स्नात्वा च शांभवम् १२.
अथ क्षुत्क्षामकंठोऽहं श्रीकंठं तं नमस्य च १२.
ततोऽहं ब्राह्मणगृहे जातो जातिस्मरः सुतः १२.
स्मरन्विलसितं मिथ्या सत्याभासमिदं जगत् १२.
तेन विप्रेण वार्धक्ये समाराध्य महेश्वरम् १२.
ततः स विप्रो वात्सल्यादगदान्सुबहून्मम १२.