प्लवमानमिदं राजन्मानसं शतयोजनम् ११.
व्यतीता इह चत्वारः शेषे मोक्षस्ततः परम् ११.
ममाभूदीश्वरस्यैव सतीधर्मद्रुहो नृप ११.
मम पृष्ठिश्चिरं भूप त्वया दग्धाग्निनाऽपुरा ११.
इदं विमानमायातं त्वया कस्मान्निराकृतम् ११.
चतुर्मुखेन तेनाहं स्वर्गान्निर्वासितः स्वयम् ११.
तस्माद्विवेकवैराग्यमविद्यापापनाशनम् ११.
तन्मे गृहगतस्याद्य यथातिथ्यकरो भवान् ११.
लोमशोनाम दीर्घायुर्मत्तोऽप्यस्ति महामुनिः ११.
तस्मादागच्छ गच्छामस्तमेव सहितावयम् ११.
इत्थं निशम्य नृपतेर्वचनं तदानीं सर्वेऽपि ते षडथ तं मुनिमुख्यमाशु ११.
अथ ते ददृशुः पार्थ संयमस्थं महामुनिम् १२.
जटास्त्रिषवणस्नानकपिलाः शिरसा तदा १२.
सव्यहस्ते तृणौघं च च्छायार्थे विप्रसत्तमम् १२.
अहिंसयन्दुरुक्ताद्यैः प्राणिनो भूमिचारिणः १२.
बकभूपद्विजोलूकगृध्रकूर्मा विलोक्य च १२.
स्वागतासनसत्कारेणामुना तेऽति सत्कृताः १२.
इन्द्रद्युम्नोऽयमवनीपतिः सत्रिजनाग्रणीः १२.
मार्कंडेयादिभिः प्राप्य कीर्त्युद्धारंच सत्तम १२.
भवतानुगृहीतोऽयमिहेच्छति महोदयम् त्वत्सकाशमिहानीतो ब्रूहि साध्वस्य वांछितम्॥ १२.
परोपकरणं नाम साधूनां व्रतमाहितम् १२.
अप्रणोद्येषु पापेषु साधु प्रोक्तमसंशयम् १२.
अप्रमत्तः प्रणोद्येषु मुनिरेष प्रयच्छति १२.
कूर्म युक्तमिदं सर्वं त्वयाभिहितमद्य नः १२.
ब्रूहि राजन्सुविश्रब्धं सन्देहं हृदयस्थितम् १२.
भगवन्प्रथमः प्रश्रस्तावदेव ममोच्यताम् १२.
कुटीमात्रोऽपि यच्छाया तृणैः शिरसि पाणिगैः॥ १२.
मर्तव्यमस्त्यवश्यं च काय एष पतिष्यति १२.
यस्य मृत्युर्भवेन्मित्रं पीतं वाऽमृतमुत्तमम् १२.
इदं युगसहस्रेषु भविष्यमभविद्दिनम् १२.