प्रधर्षयितुमारब्धः स्त्रियः परपरिग्रहाः ११.
विनाशकारणं मुख्यं परदारप्रधर्षणम् ११.
अचेतनश्चेतनावान्मूर्खो विद्वानपि स्फुटम् ११.
यदैव हरिणाक्षीणां गोचरं याति चक्षुषाम् ११.
एवं लोकद्वयं हंत्री परदारप्रधर्षणा ११.
ऐहिकामुष्मिकभयं विहायांह ततः परम् ११.
अथ मां संपरिज्ञाय मर्यादारहितं यमः व्यजिज्ञपन्मदीयं च शंभोर्धर्मव्यतिक्रमम्॥ ११.
नाहं तवानुभावेन गुप्तस्यास्य विनिग्रहम्॥ ११.
शक्रोमि पापिनो देव मन्नियोगेऽन्यमादिश ११.
गावो विप्राः सनिगमा अलुब्धा दानशीलिनः ११.
तास्तेन धर्षिता लुप्तं मदीयं धर्मशासनम् ११.
जयदत्तेन देवेश प्रतिष्ठानाधिवासिना शशाप मां समानीय वेपमानं कृतांजलिम्॥ ११.
यस्माद्दुष्टसमाचार धर्षितास्ते पतिव्रताः॥ ११.
कामार्तेन मया शप्तस्तस्मात्कूर्मः क्षणाद्भव ११.
प्राह षष्टितमे कल्पे विशापो भविता गणः ११.
अहं कूर्मस्तदा जातो दशयोजनविस्तृतः ११.
पुरस्ताद्यायजूकेन स्मरंस्तच्च बिभेमि ते ११.
चयनानि बहून्यत्र कल्पसूत्रविधानतः ११.
भूयः संतापिता यज्ञैः पृथिवी पृथिवीपते ११.
तस्यां च स्नानमात्रेण सर्वपापैः प्रमुच्यते ११.
प्लवमानमिदं राजन्मानसं शतयोजनम् ११.
व्यतीता इह चत्वारः शेषे मोक्षस्ततः परम् ११.
ममाभूदीश्वरस्यैव सतीधर्मद्रुहो नृप ११.
मम पृष्ठिश्चिरं भूप त्वया दग्धाग्निनाऽपुरा ११.
इदं विमानमायातं त्वया कस्मान्निराकृतम् ११.
चतुर्मुखेन तेनाहं स्वर्गान्निर्वासितः स्वयम् ११.
तस्माद्विवेकवैराग्यमविद्यापापनाशनम् ११.
तन्मे गृहगतस्याद्य यथातिथ्यकरो भवान् ११.
लोमशोनाम दीर्घायुर्मत्तोऽप्यस्ति महामुनिः ११.
तस्मादागच्छ गच्छामस्तमेव सहितावयम् ११.