अकारिषमहं रम्यं विश्वकर्मविधानतः ११.
कृतमायतनं दद्यात्क्रमाद्दशगुणं फलम् ११.
जटाधरस्तपस्यंश्च शिवाराधनतत्परः ११.
जातो जाति स्मरस्तत्र कारिता तृतीयेहं भवांतरे ११.
जयदत्त इति ख्यातः सूर्यवंशसमुद्भवः ११.
तस्मिन्भवांतरे शंभोराराधनपरेण च ११.
सौवर्णै राजतै रत्ननिर्मितैः कुसुमैर्नृप ११.
केवलं शिवलिंगानां पूजां पुष्पैः करोम्यहम् ११.
अजरामरतां राजंस्तेनैव वपुषावृतः ११.
विचरामि महीमेतां मदांध इव वारणः ११.
प्रधर्षयितुमारब्धः स्त्रियः परपरिग्रहाः ११.
विनाशकारणं मुख्यं परदारप्रधर्षणम् ११.
अचेतनश्चेतनावान्मूर्खो विद्वानपि स्फुटम् ११.
यदैव हरिणाक्षीणां गोचरं याति चक्षुषाम् ११.
एवं लोकद्वयं हंत्री परदारप्रधर्षणा ११.
ऐहिकामुष्मिकभयं विहायांह ततः परम् ११.
अथ मां संपरिज्ञाय मर्यादारहितं यमः व्यजिज्ञपन्मदीयं च शंभोर्धर्मव्यतिक्रमम्॥ ११.
नाहं तवानुभावेन गुप्तस्यास्य विनिग्रहम्॥ ११.
शक्रोमि पापिनो देव मन्नियोगेऽन्यमादिश ११.
गावो विप्राः सनिगमा अलुब्धा दानशीलिनः ११.
तास्तेन धर्षिता लुप्तं मदीयं धर्मशासनम् ११.
जयदत्तेन देवेश प्रतिष्ठानाधिवासिना शशाप मां समानीय वेपमानं कृतांजलिम्॥ ११.
यस्माद्दुष्टसमाचार धर्षितास्ते पतिव्रताः॥ ११.
कामार्तेन मया शप्तस्तस्मात्कूर्मः क्षणाद्भव ११.
प्राह षष्टितमे कल्पे विशापो भविता गणः ११.
अहं कूर्मस्तदा जातो दशयोजनविस्तृतः ११.
पुरस्ताद्यायजूकेन स्मरंस्तच्च बिभेमि ते ११.
चयनानि बहून्यत्र कल्पसूत्रविधानतः ११.
भूयः संतापिता यज्ञैः पृथिवी पृथिवीपते ११.
तस्यां च स्नानमात्रेण सर्वपापैः प्रमुच्यते ११.