परेषामनपेक्ष्यैव कृतप्रतिकृतं हि यः १०.
स्वार्थोद्युक्तधियो ये स्युरन्वर्थास्तेप्यसुंधराः १०.
प्राणिनां परमो लाभः केवलं प्राणिसौहृदम् १०.
मित्रावसानिनः पापाः प्रायो नरकमंडनाः १०.
मम कीर्तिसमुद्धारः स प्रभावो महात्मनाम् तदाहमपि यास्यामि देवदूतान्यथा न हि॥ १०.
एते हरगणाः सर्वेशापभ्रष्टाः क्षितिं गताः॥ १०.
शापांते हरपार्श्वे तु यास्यंति पृथिवीपते १०.
न चैषां रोचते स्वर्गो हित्वा देवं महेश्वरम् इंद्रद्युम्न उवाच १०.
तथा तथा यति ष्यामि भविष्यामि यथा गणः १०.
स्वर्गः सदानुश्रविकस्तस्मादेनं न कामये १०.
पुनः पातो यतः पुंसस्तस्मात्स्वर्गं न कामये १०.
चतुर्मुखेन वैलक्ष्यं गतोऽस्मि कथमेमि तम् १०.
अप्राक्षीद्भूपतिः कूर्मं तदायुःकारणं तदा १०.
सुहृन्मित्रं गुरुस्त्वं मे येन कीर्तिर्ममोद्धृता॥ १०.
श्रृणु भूप कथां दिव्यां श्रवणात्पापनाशिनीम् १०.
श्रृण्वन्निमामपि कथां नृपते मनुष्यः सुश्रद्धया भवति पापविमुक्तदेहः १०.
शांडिल्य इति विख्यातः पुराहमभवं द्विजः ११.
पुरा प्रावृषि पांशूत्थं शिवायतनमुच्छ्रितम् ११.
पंचायतनविन्यासमनोहरतरं नृप ११.
पीतमृत्स्वर्णकलशं ध्वजमालाविभूषितम् ११.
दृढप्रांशुसमुद्भूतसोपानश्रेणिभासुरम् ११.
तत्र जागेश्वरं लिंगं गृत्वाथ विनिवेशितम् ११.
बकपुष्पैस्तथान्यैश्च केदारोत्थैः समाहृतैः ११.
कूष्मांडैश्चैव वर्णाद्यैरुन्मत्तकुसुमायुतैः ११.
पूजा विरचिता रम्या शंभोरिति मया नृप ११.
शिवस्य पुरतो बाल्याद्गीतं च स्वस्वर्जितम् ११.
ततो मृतोऽहं जातश्च विप्रो जातिस्मरो नृप ११.
शिवदीक्षामुपागम्यानुगृहीतः शिवागमैः ११.
कल्पकोटिं वसेत्स्वर्गेयः करोति शिवालयम् ११.
भवंति तावद्वर्षाणि करकः शिवसद्मनि ११.