पपात पुष्पवृष्टिः खाद्विमुक्ताप्सरसां गणैः १०.
विस्मितास्ते च ददृशुर्विमानं पुरतः स्थितम् १०.
अयातयामाः प्रददुराशिषोऽस्मै सुरद्विजाः १०.
ततो विमानमालंब्य देवदूतस्तमुच्चकैः १०.
नवीकृताधुना कीर्तिस्तव भूपाल निर्मला १०.
गम्यतां ब्रह्मणो लोकमाकल्पं तपसोर्जितम् १०.
यावत्कीर्तिर्मनुष्यस्य पृथिव्यां प्रथिता भवेत् १०.
सुरालयसरोवापीकूपारामादिकल्पना १०.
अमी ममैव सुहृदो मार्कंडबककौशिकाः १०.
तच्चेदमी मया साकं ब्रह्मलोकं प्रयांत्युत १०.
परेषामनपेक्ष्यैव कृतप्रतिकृतं हि यः १०.
स्वार्थोद्युक्तधियो ये स्युरन्वर्थास्तेप्यसुंधराः १०.
प्राणिनां परमो लाभः केवलं प्राणिसौहृदम् १०.
मित्रावसानिनः पापाः प्रायो नरकमंडनाः १०.
मम कीर्तिसमुद्धारः स प्रभावो महात्मनाम् तदाहमपि यास्यामि देवदूतान्यथा न हि॥ १०.
एते हरगणाः सर्वेशापभ्रष्टाः क्षितिं गताः॥ १०.
शापांते हरपार्श्वे तु यास्यंति पृथिवीपते १०.
न चैषां रोचते स्वर्गो हित्वा देवं महेश्वरम् इंद्रद्युम्न उवाच १०.
तथा तथा यति ष्यामि भविष्यामि यथा गणः १०.
स्वर्गः सदानुश्रविकस्तस्मादेनं न कामये १०.
पुनः पातो यतः पुंसस्तस्मात्स्वर्गं न कामये १०.
चतुर्मुखेन वैलक्ष्यं गतोऽस्मि कथमेमि तम् १०.
अप्राक्षीद्भूपतिः कूर्मं तदायुःकारणं तदा १०.
सुहृन्मित्रं गुरुस्त्वं मे येन कीर्तिर्ममोद्धृता॥ १०.
श्रृणु भूप कथां दिव्यां श्रवणात्पापनाशिनीम् १०.
श्रृण्वन्निमामपि कथां नृपते मनुष्यः सुश्रद्धया भवति पापविमुक्तदेहः १०.
शांडिल्य इति विख्यातः पुराहमभवं द्विजः ११.
पुरा प्रावृषि पांशूत्थं शिवायतनमुच्छ्रितम् ११.
पंचायतनविन्यासमनोहरतरं नृप ११.
पीतमृत्स्वर्णकलशं ध्वजमालाविभूषितम् ११.