सरस्तीरे स्थितः कूर्मस्तान्निरीक्ष्य विदूरगान् १०.
कौशिकोऽथ तमाहेदं प्रहस्य वचनं स्वयम् १०.
अग्निर्द्विजानां विप्रश्च वर्णानां रमणः स्त्रियाम् १०.
विहाय तमिमं धर्ममातिथ्यविमुखः कथम् १०.
चिरंतनो हि जानामि कर्त्तुमातिथ्यसत्क्रियाम् १०.
सुमहत्कारणं चात्र श्रूयतां तद्वदामि वः १०.
अभ्यागतस्य कस्यापि सर्वसत्कारसद्व्रती १०.
इंद्रद्युम्नो महीपालो बिभोम्यस्मादलंतराम् १०.
यज्ञपावकदग्धा मे पृष्ठिर्नाद्यापि निर्व्रणा १०.
आसुतीवलमाधाय भुवि धक्ष्यति संप्रति १०.
पपात पुष्पवृष्टिः खाद्विमुक्ताप्सरसां गणैः १०.
विस्मितास्ते च ददृशुर्विमानं पुरतः स्थितम् १०.
अयातयामाः प्रददुराशिषोऽस्मै सुरद्विजाः १०.
ततो विमानमालंब्य देवदूतस्तमुच्चकैः १०.
नवीकृताधुना कीर्तिस्तव भूपाल निर्मला १०.
गम्यतां ब्रह्मणो लोकमाकल्पं तपसोर्जितम् १०.
यावत्कीर्तिर्मनुष्यस्य पृथिव्यां प्रथिता भवेत् १०.
सुरालयसरोवापीकूपारामादिकल्पना १०.
अमी ममैव सुहृदो मार्कंडबककौशिकाः १०.
तच्चेदमी मया साकं ब्रह्मलोकं प्रयांत्युत १०.
परेषामनपेक्ष्यैव कृतप्रतिकृतं हि यः १०.
स्वार्थोद्युक्तधियो ये स्युरन्वर्थास्तेप्यसुंधराः १०.
प्राणिनां परमो लाभः केवलं प्राणिसौहृदम् १०.
मित्रावसानिनः पापाः प्रायो नरकमंडनाः १०.
मम कीर्तिसमुद्धारः स प्रभावो महात्मनाम् तदाहमपि यास्यामि देवदूतान्यथा न हि॥ १०.
एते हरगणाः सर्वेशापभ्रष्टाः क्षितिं गताः॥ १०.
शापांते हरपार्श्वे तु यास्यंति पृथिवीपते १०.
न चैषां रोचते स्वर्गो हित्वा देवं महेश्वरम् इंद्रद्युम्न उवाच १०.
तथा तथा यति ष्यामि भविष्यामि यथा गणः १०.
स्वर्गः सदानुश्रविकस्तस्मादेनं न कामये १०.