उक्तं वाराणसीक्षेत्रं क्रोशपंचकपावनम् 1.3.2.2.
कपालमोचनं यत्र यत्रास्ते कालभैरवः
गयाप्रयागावपि ते कथितौ सर्वसिद्धिदौ
आकर्णितं च केदारं यस्मिन्महिषरूपधृक्
सर्वसिद्धिकरं पुंसां क्षेत्रं बदरिकाश्रमम्
श्रुतं हि नैमिषं क्षेत्रं त्वया यत्र महेश्वरः
अमरेशमिति स्थानं प्रोक्तं सर्वार्थसाधकम्
पुष्कराख्यं महास्थानं श्रुतं ते कथितं मया
आषाढीनाम ते स्थानं पावनं कथितं मया
दंडिमुंडी समाख्यं च स्थानं ते कथितं मया
लाकुलंनाम ते स्थानं संशुद्धं कथितं मया 1.3.2.2.
भारभूतिरिति स्थानं भवतोऽभिहितं मया
अरालकेश्वरं नाम स्थानं ते कथितं मया
गयानाम महाक्षेत्रं तव प्रस्तावितं मया
कुरुक्षेत्रमिति स्थानं भवते विनिवेदितम्
उक्तं कनखलंनाम मया ते स्थानमुत्तमम्
तालकाख्यं महाक्षेत्रं मार्कंडेय मयोदितम्
अट्टहासमिति प्रोक्तं महास्थानं मया तव
कृत्तिवासाभिधं क्षेत्रमुक्तं ते वेदवित्तम
भ्रमरांबिकया देव्या महेशो मल्लिकार्जुनः
सुवर्णमुखरीतीरे कालहस्तीति शंकरः 1.3.2.2.
कांच्यामेकाम्रमूलस्थः कामाक्ष्या कामशासनः
अस्ति व्याघ्रपुरंनाम तिल्लिकाननमध्यगम्
श्वेतारण्यमिति स्थानमुक्तं तव मया पुरा
सेतुबंधमिति स्थानमवोचं तत्र राघवः
गतप्रत्याह्वय स्थानं विद्यते वृषभध्वजः
मणिमुक्तानदीमन्वक्क्षेत्रे वृद्धाचलाह्वये
श्रीमन्मध्यार्जुनंनाम श्रुतं स्थानमनुत्तमम्
आस्थितं सोमनाथेन सोमतीर्थं त्वया श्रुतम्
आकर्णितं हि भवता क्षेत्रं सिद्धवटाह्वयम्