कौमोदकीकराः सर्वे पक्षिणो गरुडध्वजाः
अकामो वा सकामो वा अपि तीर्थगतोपि वा
मुनयो देवताः सिद्धाः साध्या यक्षा मरुद्गणाः 2.8.3.
मध्याह्नेऽत्र प्रकुर्वंति सान्निध्यं देवतागणाः
कुर्वंत्यनशनं ये तु स्वर्गद्वारे जितेंद्रियाः
अन्नदानरता ते च रत्नदा भूमिदा नराः
यत्र सिद्धा महात्मानो मुनयः पितरस्तथा
चतुर्द्धा च तनुं कृत्वा देवदेवो हरिः स्वयम्
ब्रह्मलोकं परित्यज्य चतुर्वक्त्रः सनातनः
कैलासनिलयावासी शिवस्तत्रैव संस्थितः
मेरुमन्दरमात्रोऽपि राशिः पापस्य कर्मणः
या गतिर्ज्ञानतपसां या गतिर्यज्ञयाजिनाम्
ऋषिदेवासुरगणैर्जपहोमपरायणैः 2.8.3.
षष्टिवर्षसहस्राणि काशीवासेषु यत्फलम्
या गतिर्योगयुक्तानां वाराणस्यां तनुत्यजाम्
स्वर्गद्वारे मृतः कश्चिन्नरकं नैव पश्यति
भूलोके चांतरिक्षे च दिवि तीर्थानि यानि वै
विष्णुभक्तिं समासाद्य रमन्ते तु सुनिश्चिताः
शक्तितः सर्वतो युक्त्वा शक्तिस्तपसि संस्थिता
हन्यमानोऽपि यो विद्वान्वसेच्छस्त्रशतैरपि
स्वर्गद्वारे वियुज्येत स याति परमां गतिम्
सर्वस्तेषां शुभः कालः स्वर्गद्वारं श्रयंति ये
यावत्पापानि देहेन ये कुर्वंति जनाः क्षितौ ।। 2.8.3.
ज्येष्ठे मासि सिते पक्षे पंचदश्यां विशेषतः
तस्मिन्नुद्यापनं चन्द्रसहस्रं व्रतयोगिभिः
तस्मिन्कृते महापापक्षयात्स्वर्गो भवेन्नृणाम्
उत्पत्तिं च तथा चंद्रव्रतस्योद्यापने विधिम्
आगच्छत्तीर्थमाहात्म्यं साक्षात्कर्तुं सुधानिधिः
क्रमेण विधिपूर्वं च नानाश्चर्यसमन्वितः
तत्प्रसादं समासाद्य स्वाभिधानपुरस्सरम्