ततो मां प्रणिधानेनाभ्यासेन दृढभूमिना ९.
कुशध्वजाहं तुष्टोद्य वरं वरय वांछितम् ९.
श्रुत्वेत्युक्तो मया शम्भुर्भूयासं ते गंणो ह्यहम् ९.
ततः कैलासमानीय विमानं मम चादिशत् ९.
विचरामि प्रतीतोऽहं तदारूढो यदृच्छया ९.
गवाक्षाधिष्ठितोऽपश्यं वसंते मुनिकन्यकाम् ९.
अग्निवेश्यसुतां भद्र विवस्त्रां जलमध्यगाम् ९.
विस्तीर्णजघनाभोगां रंभोरुं संहतस्तनीम् ९.
प्रोन्निद्रपंकजमुखीं वर्णनीयतमाकृतिम् ९.
प्रोद्यत्कटाक्षविक्षेपैः शरव्रातैरिव स्मरः ९.
वयस्यासंवृचामेवं खेलमानां यदृच्छया ९.
सा गृहीता मया दीर्घं प्रकुर्वाणा महास्वनम् ९.
ततो वयस्यास्ता दीना मुनिमाहुः प्रधाविताः ९.
रुदन्तीं भगवन्नेतां त्राह्युत्तिष्ठेति सर्वतः ९.
अग्निवेश्योऽभ्यगात्तस्या व्योमन्युपपदं त्वरन् ९.
ततः प्रकुपितः प्राह मुनिमामति दुःसहम् अग्निवेश्य उवाच ९.
गृध्रेणेवाऽधुना व्योम्नि तस्माद्गध्रो भव द्रुतम् ९.
त्वया हृताधुनास्यैतत्फलमाप्नुहि दुर्मते ९.
पादौ प्रगृह्य न्यपतं रुदन्नतितरां तदा ९.
प्रसादं कुरु ते शापं व्यावर्तय तपोनिधे ९.
भवंति संतस्तद्गृध्रो मा भवेयं प्रसीद मे ९.
प्रसन्नः प्राह नो मिथ्या मम वाक्यं भवेत्क्वचित् ९.
यदा यास्यसि शापस्य तदा मुक्तिमवाप्स्यसि॥ ९.
इत्युक्त्वा स मुनिः प्रायाद्गृहीत्वा निजकन्यकाम् ९.
एवं तदा दमनकोत्सव ईश्वरस्य आंदोलनेन नृपवेश्मनि मेऽवतारः ९.
गृध्रस्यैतद्वचः श्रुत्वा दुःखविस्मयसंयुतः १०.
ततस्तमालोक्य तथा मुमूर्षुं कौशिकादिभिः १०.
मैवं कार्षीः श्रुणु गिरं भद्रक त्वं चिरंतनः १०.
मानसे सरसि ख्यातः कूर्मोमंथरकाख्यया १०.
ततः प्रतीतास्ते भूपमुनिगृध्रबकास्तथा १०.