स्वकुलायात्प्रहृष्टोऽसौ गृध्रः संमुखमाययौ ९.
उलूकं गृध्रराजश्च कार्यं पप्रच्छ तं तथा ९.
मुनेरपि तृतीयोऽयं मित्रं चार्थोयमुद्यतः ९.
वह्निं प्रवेक्ष्यते व्यक्तमयं तदनु वै वयम् ९.
तच्चेज्जानासि तं ब्रूहि चतुर्णां देहि जीवितम् ९.
षट्पंचाशद्व्यतीता मे कल्पा जातस्य कौशिक ९.
तच्छ्रुत्वा विस्मयाविष्ट इंद्रद्युम्नोऽपि दुःखितः ९.
श्रृणु भद्रै पुरा जातो मर्कटोऽहं च चापलः ९.
तत्राग्रे देवदेवस्य वनमध्ये शिवालये ९.
चतुर्दशीदिने हस्तनक्षत्रे हर्षणाभिधे ९.
अत्र सौवर्ण्यदोलायां लिंग आरोपिते जनैः ९.
निसर्गाज्जतिचापल्याच्चिरकालं पुनःपुनः ९.
दोलाधिरूढमालोक्य लकुटैर्मां व्यताडयन् ९.
तेषां प्रहारैः सुदृढैर्बहुभिर्वज्रदुःसहैः ९.
काशीश्वरस्य तनयः प्रतीतोऽस्मि कुशध्वजः ९.
कारयामि धरापृष्ठे चैत्रे दमनकोत्सवम् ९.
तथा तथाऽशुभं याति पुण्यमायाति भद्रक ९.
शिवाचार्यैर्विमुक्तोऽहं पशुपाशैस्तदागमात् ९.
आराधयामि देवेशं प्रत्यक्चित्तमुमापतिम् ९.
चित्तवृत्तिनिरोधेन वैराग्याभ्यासयोगतः ९.
ततो मां प्रणिधानेनाभ्यासेन दृढभूमिना ९.
कुशध्वजाहं तुष्टोद्य वरं वरय वांछितम् ९.
श्रुत्वेत्युक्तो मया शम्भुर्भूयासं ते गंणो ह्यहम् ९.
ततः कैलासमानीय विमानं मम चादिशत् ९.
विचरामि प्रतीतोऽहं तदारूढो यदृच्छया ९.
गवाक्षाधिष्ठितोऽपश्यं वसंते मुनिकन्यकाम् ९.
अग्निवेश्यसुतां भद्र विवस्त्रां जलमध्यगाम् ९.
विस्तीर्णजघनाभोगां रंभोरुं संहतस्तनीम् ९.
प्रोन्निद्रपंकजमुखीं वर्णनीयतमाकृतिम् ९.
प्रोद्यत्कटाक्षविक्षेपैः शरव्रातैरिव स्मरः ९.