नाशकं वदनं भद्र तथा दर्शयितुं निजम् ८.
नीत्वा दुर्गतमैकांतेऽकार्षमौद्वाहिकं विधिम् ८.
अनिच्छंतीं तदा बालां बलात्सुरतसेवनम् ८.
निश्वस्य संवृतो विप्रास्तां वीक्ष्योद्वाहितां सुताम् ८.
निशाचरस्य धर्मेण यत्त्वयोद्वाहिता सुता ८.
इति शप्तः प्रण्म्यैनं पादोपग्रहपूर्वकम् ८.
ततोहमब्रवं कस्माददोषं मां भवानिति ८.
सोद्वाहिता मया कन्या दानं सकृदिति स्मृतिः ८.
सकृत्कन्याः प्रदीयंते त्रीण्येतानि सकृत्सकृत् ८.
भवादृशानां साधूनां साधूनां तस्य त्यागो विगर्हितः ८.
उद्वोढा चाधुना नाहमुचितः शापभाजनम् ८.
यो दत्त्वा कन्यकां वाचा पश्चाद्धरति दुर्मतिः ८.
तदाकर्ण्य व्यवस्यासौ तथ्यं मद्वचनं हृदा ८.
न मे स्यादन्यथा वाणी उलूकस्त्वं भविष्यति ८.
यदेंद्रद्युम्नविज्ञाने सहायस्तंव भविष्यसि ८.
तद्वाक्यसमकालं च कौशिकत्वमिदं मम ८.
बिल्वीदलौरिति पुरा शशिशेखरस्य संपूजनेन मम दीर्घतरं किलायुः ८.
इतीदमुक्तमखिलं पूर्वजन्मसमुद्भवम् ९.
इत्युक्त्वा विरते तस्मिन्पुरूहूतसनामनि ९.
यदर्थं वयमायातास्तन्न सिद्धं महामते ९.
इंद्रद्युम्नापरिज्ञाने भद्रकोऽयं मुमूर्षति ९.
मित्रकार्ये विनिर्वृत्ते म्रियमाणं निरीक्षते ९.
तदेतावनुयास्यामि म्रियमाणावहं द्विज ९.
प्रतिज्ञातमनिष्पाद्य मित्रस्याभ्यागतस्य च ९.
तस्माद्वह्निं प्रवेक्ष्यामि सार्धमाभ्यामसंशयम् ९.
इत्युक्तवत्युलूकोऽसौ नाडीजंघे सगद्गदम् ९.
मयि जीवति मित्रे मे भवान्मरणमेति च ९.
अस्त्युपायो महानत्र गन्धमादनपर्वते ९.
स विज्ञास्यति वोऽभीष्टमिंद्रद्युम्नं महीपतिम् ९.
मार्कंडेयो बकश्चैव प्रययुर्गंधमादनम् ९.