अथ लीलाविलासो मां तथेत्युक्त्वाऽविचारितम् ८.
कृतकृत्यं तदात्मानमज्ञासिपमहं क्षितौ ८.
अवदातत्रिजन्मासवक्षविच्चाक्षरार्थवित् ८.
अतीव मुदिता पत्युर्मुखं प्रेक्ष्यास्य दर्शनात् ८.
तस्यां तस्मादभूत्कन्या निर्विशेषा निजारणेः ८.
नालं बभूव तां दातुं तनयां गुणशालिनीम् ८.
प्रविश्द्यौवनाभोगभावैरतिमनोहरा ८.
क्रीडमाना वयस्याभिर्लावण्यप्रतिमेव सा ८.
अनन्याकृतिमन्योऽसौ विधिर्येनेति निर्मिता ८.
प्रापितो लीलयाहत्य बाणैः कुसुमधन्विना ८.
प्राहेति भृगुवंश्यस्य कन्येयं द्विजजन्मनः ८.
ततः कुसुमबाणेन शरव्रातैर्भृशं हतः ८.
स च मां सदृशं ज्ञात्वा शीलेन च कुलेन च ८.
ततः सा तनया तस्य भार्गवस्या श्रृणोदिति ८.
रोरूयमाणा जननीमाह पश्य यथा कृतम् ८.
विषमालोड्य पास्यामि प्रवेक्ष्यामि हुताशनम् ८.
ततः संबोध्य जननी तां सुतामाह भार्गवम् ८.
स वल्लभावचः श्रुत्वा धर्मशास्त्राण्यवेक्ष्य च ८.
अर्वाक्छिलाक्रमणतो निष्ठा स्यात्सप्तमे पदे ८.
श्वोभाविनि विवाहे तु तच्च सर्वं मया श्रुतम् ८.
नाशकं वदनं भद्र तथा दर्शयितुं निजम् ८.
नीत्वा दुर्गतमैकांतेऽकार्षमौद्वाहिकं विधिम् ८.
अनिच्छंतीं तदा बालां बलात्सुरतसेवनम् ८.
निश्वस्य संवृतो विप्रास्तां वीक्ष्योद्वाहितां सुताम् ८.
निशाचरस्य धर्मेण यत्त्वयोद्वाहिता सुता ८.
इति शप्तः प्रण्म्यैनं पादोपग्रहपूर्वकम् ८.
ततोहमब्रवं कस्माददोषं मां भवानिति ८.
सोद्वाहिता मया कन्या दानं सकृदिति स्मृतिः ८.
सकृत्कन्याः प्रदीयंते त्रीण्येतानि सकृत्सकृत् ८.
भवादृशानां साधूनां साधूनां तस्य त्यागो विगर्हितः ८.