वसिष्ठकुलसंभूतः पुराहमभवं द्विजः ८.
धर्मश्रवणनिष्ठस्य साधूनां संसदि स्वयम् ८.
न मालती न मंदारः शतपत्रं न मल्लिका ८.
अखंडबिल्वपत्रेण एकेन शिवमूर्धनि ८.
अखंडितैर्बिल्वपत्रैः श्रद्धया स्वयमाहृतैः ८.
सच्छास्त्रेभ्य इति श्रुत्वा पूजयाम्यहमीश्वरम् ८.
ततो वर्षशतस्यांते तुतोष शशिशेखरः ८.
तुष्टोस्मि तव विप्रेंद्राखंडबिल्वदलार्चनात् ८.
अखंडबिल्वपत्रेण महातुष्टिः प्रजायते ८.
इत्युक्तोऽहं भगवता शंभुना स्वमनः स्थितम् ८.
अथ लीलाविलासो मां तथेत्युक्त्वाऽविचारितम् ८.
कृतकृत्यं तदात्मानमज्ञासिपमहं क्षितौ ८.
अवदातत्रिजन्मासवक्षविच्चाक्षरार्थवित् ८.
अतीव मुदिता पत्युर्मुखं प्रेक्ष्यास्य दर्शनात् ८.
तस्यां तस्मादभूत्कन्या निर्विशेषा निजारणेः ८.
नालं बभूव तां दातुं तनयां गुणशालिनीम् ८.
प्रविश्द्यौवनाभोगभावैरतिमनोहरा ८.
क्रीडमाना वयस्याभिर्लावण्यप्रतिमेव सा ८.
अनन्याकृतिमन्योऽसौ विधिर्येनेति निर्मिता ८.
प्रापितो लीलयाहत्य बाणैः कुसुमधन्विना ८.
प्राहेति भृगुवंश्यस्य कन्येयं द्विजजन्मनः ८.
ततः कुसुमबाणेन शरव्रातैर्भृशं हतः ८.
स च मां सदृशं ज्ञात्वा शीलेन च कुलेन च ८.
ततः सा तनया तस्य भार्गवस्या श्रृणोदिति ८.
रोरूयमाणा जननीमाह पश्य यथा कृतम् ८.
विषमालोड्य पास्यामि प्रवेक्ष्यामि हुताशनम् ८.
ततः संबोध्य जननी तां सुतामाह भार्गवम् ८.
स वल्लभावचः श्रुत्वा धर्मशास्त्राण्यवेक्ष्य च ८.
अर्वाक्छिलाक्रमणतो निष्ठा स्यात्सप्तमे पदे ८.
श्वोभाविनि विवाहे तु तच्च सर्वं मया श्रुतम् ८.