प्राकारकर्णनामासावुलूकः शिवपर्वते ८.
तस्मादहं त्वया सार्धममुना च शिवालयम् ८.
इत्येव मुक्त्वा ते जग्मुस्त्रयोऽपि द्विजपुंगवाः ८.
कृतसंविदसौ तेन बकः स्वागतपूजया ८.
चिरायुरसि जानीषे यदीन्द्रद्युम्नभूपतिम् ८.
इति पृष्टः स विमना मित्रकार्यप्रसाधनात् ८.
अष्टाविंशत्प्रमाणा मे कल्पा जातस्य भूतले ८.
तच्छ्रुत्वा विस्मितो भूपस्तस्यायुरतिमात्रतः ८.
एवमायुर्यदि तव कथं प्राप्तं ब्रवीहि तत् ८.
श्रृणु भद्र यथा दीर्घमायुर्मेशिवपूजनात् ८.
वसिष्ठकुलसंभूतः पुराहमभवं द्विजः ८.
धर्मश्रवणनिष्ठस्य साधूनां संसदि स्वयम् ८.
न मालती न मंदारः शतपत्रं न मल्लिका ८.
अखंडबिल्वपत्रेण एकेन शिवमूर्धनि ८.
अखंडितैर्बिल्वपत्रैः श्रद्धया स्वयमाहृतैः ८.
सच्छास्त्रेभ्य इति श्रुत्वा पूजयाम्यहमीश्वरम् ८.
ततो वर्षशतस्यांते तुतोष शशिशेखरः ८.
तुष्टोस्मि तव विप्रेंद्राखंडबिल्वदलार्चनात् ८.
अखंडबिल्वपत्रेण महातुष्टिः प्रजायते ८.
इत्युक्तोऽहं भगवता शंभुना स्वमनः स्थितम् ८.
अथ लीलाविलासो मां तथेत्युक्त्वाऽविचारितम् ८.
कृतकृत्यं तदात्मानमज्ञासिपमहं क्षितौ ८.
अवदातत्रिजन्मासवक्षविच्चाक्षरार्थवित् ८.
अतीव मुदिता पत्युर्मुखं प्रेक्ष्यास्य दर्शनात् ८.
तस्यां तस्मादभूत्कन्या निर्विशेषा निजारणेः ८.
नालं बभूव तां दातुं तनयां गुणशालिनीम् ८.
प्रविश्द्यौवनाभोगभावैरतिमनोहरा ८.
क्रीडमाना वयस्याभिर्लावण्यप्रतिमेव सा ८.
अनन्याकृतिमन्योऽसौ विधिर्येनेति निर्मिता ८.
प्रापितो लीलयाहत्य बाणैः कुसुमधन्विना ८.