नोदर्कशालिनी बुद्धिर्येषामविजितात्मनाम् ७.
तत्प्रसीद मुनिश्रेष्ठ शापांतं मेऽधुना कुरु ७.
इत्थं वचसि विज्ञप्ते विनीतेनापि वै मया ७.
छन्नकीर्तिसमुद्धारसहायस्त्वं भविष्यसि ७.
इत्यहं मुनिशापेन तदाप्रभृति पर्वते ७.
राज्यं चिरायुरिति मे घृतकम्बलस्य जातिस्मरत्वमधुनापि तथानु भावान् ७.
नाडीजंघबकेनोक्तां वाचमाकर्ण्यभूपतिः ८.
तं निशम्य मुनिर्भूपं दुःखितं साश्रुलोचनम् ८.
विधायाशां महाभाग त्वदंतिकमुपागतौ ८.
निष्पन्नं नास्य तत्कार्यं प्राणानेष मुमुक्षति ८.
तन्मामुपागतोऽहं च त्वां सिद्धं नास्य वांछितम् ८.
आशां कृत्वाभ्युपायातं निराशं नेक्षितुं क्षमाः ८.
प्रार्थितं चामुना हृत्स्थं मया चास्मै प्रतिश्रुतम् ८.
असंपादयतो नार्थं प्रतिज्ञातं ममायुषा ८.
प्रतिश्रुतं कृतं श्लाघ्या दासतांत्यजपक्वणे ८.
मित्रस्नेहस्य पर्यायस्तच्च साप्तपदं स्मृतम् ८.
तदवश्यमहं साकमधुना वह्निसाधनम् ८.
अनुजानीहि मामेतद्दर्शनं तव पश्चिमम् ८.
वज्रवद्दुःसहां वाचं मार्कंडेयसमीरिताम् ८.
यद्येवं तदिदं मित्रं विशंतं ज्वलनेऽधुना ८.
प्राकारकर्णनामासावुलूकः शिवपर्वते ८.
तस्मादहं त्वया सार्धममुना च शिवालयम् ८.
इत्येव मुक्त्वा ते जग्मुस्त्रयोऽपि द्विजपुंगवाः ८.
कृतसंविदसौ तेन बकः स्वागतपूजया ८.
चिरायुरसि जानीषे यदीन्द्रद्युम्नभूपतिम् ८.
इति पृष्टः स विमना मित्रकार्यप्रसाधनात् ८.
अष्टाविंशत्प्रमाणा मे कल्पा जातस्य भूतले ८.
तच्छ्रुत्वा विस्मितो भूपस्तस्यायुरतिमात्रतः ८.
एवमायुर्यदि तव कथं प्राप्तं ब्रवीहि तत् ८.
श्रृणु भद्र यथा दीर्घमायुर्मेशिवपूजनात् ८.